अनुशासनपर्व

अध्यायः ११६

Anusasana Parva (Sanskrit) · Adhyaya 116
अक्षर का आकार

युधिष्ठिर उवाच।

पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्।
पावनं परमं चैव तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्।
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा।।

न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम।
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः।।

देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै।
दत्त्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः।।

मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा।
गा वै ददन्तः सततं सहस्रशतसम्मिताः।।

गताः परमकं स्थानं देवैरपि सुदुर्लभम्।
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ।।

ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः।
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः।।

पितरं परिपप्रच्छ दृष्टलोकपरावरम्।
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते।।

किञ्च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः।
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो।।

किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः।
दानानामुत्तमं किञ्च किञ्च सत्रमितः परम्।
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने।।

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ।।

गावः प्रतिष्ठा भूतानां तथा गावः परायणम्।
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा।।

पूर्वमासन्नंशृङ्गा वै गाव इत्यनुशश्रुम।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम्।।

ततो ब्रह्मा तु गाः सत्रमुपविष्टाः समीक्ष्य ह।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः।।

तासां शृङ्गाण्यजायन्त तस्या यादृङ्भनोगतम्।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक।।

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः।।

गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते।
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः।।

ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ।।

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम।।

सर्वा मणिभयी भूमिः सर्वकाञ्चनवालुकाः।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का निरजाः शुभाः।।

रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः।।

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः।।

करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः।
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः।।

निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः।
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः।।

सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः।।

सौवर्णि गिरयस्तत्र मणिरत्नशिलोच्चयाः।
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः।।

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ।।

रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः।।

विमानेषु विचित्रेषु रमणीयेषु भारत।
मोदन्ते पुण्यकर्माणो विरहन्तो यशस्विनः।।

उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः।
एतान्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर।।

यासामधिपतिः पूषा मारुतो बलवान्बले।
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः।।

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः।
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः।।

गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान्।।

द्रुह्येन मनसा वाऽपि गोषु ता हि सुखप्रदाः।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्।।

दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः।।

गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं विबेत्।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्र्यहम्।।

योन देवाः पवित्रेणि भुञ्जते लोकमुत्तमम्।
यत्पवित्रं पवित्राणां तद्धृतं शिरसा वहेत्।।

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्।
घृतं प्राशेद्धृतं दद्याद्गवां पुष्टिं तथाऽश्नुते।।

निर्हृतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते।।

पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम्।।
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः।।

गावः पवित्राः पुण्याश्च पावनं परमं महत्।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते।।

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्।
पूताभिरद्भिराचम्यि शुचिर्भवति निर्मलः।।

अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि।
विद्यावेदप्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः।।

अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम्।
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम्।।

पुत्रिकामश्च लभते पुत्रं धनमथापि वा।।
पतिकामा च भर्तारं सर्वकामांश्च मानवः।।

गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः।
एवमेतां महाभागा यज्ञियाः सर्वकामदाः।
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्।।

इत्युक्तः स महातेजाः शुकः पित्रा महात्मना।
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षोडशाधिकशततमोऽध्यायः।। 116 ।।