अनुशासनपर्व

अध्यायः ११४

Anusasana Parva (Sanskrit) · Adhyaya 114
अक्षर का आकार

वसिष्ठ उवाच।

शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम्।
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति।।

लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः।
भवेम न च लोप्येम दोषेणेति परन्तप।।

अस्मत्पुरीषस्नानेन जनः पुयेत सर्वदा।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाःठ।।

तथा सर्वाणि भूतानि स्थावराणि चराणि च।
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद।।

ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः।
एवं भवन्विति विभुर्लोकांस्तारयतेति च।।

उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः।
तपसोऽन्ते महाराज गावो लोकपरायणाः।।

तस्माद्गावो महाभागाः पवित्रं परमुच्यते।
तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि।।

सम्मनवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्।।
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते।।

लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते।।

समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतीं सोमलोके महीयते।।

समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते।।

समानवत्सां कृष्णां तु धेनु दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते।।

समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते।।

अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते।।

वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते।।

हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते।।

पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते।।

सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम्।
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते।।

समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात्।।

पाण्डुकम्बलवर्णाभां सवत्सां कांस्यकदोहनाम्।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते।।

वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम्।
प्रददन्मरुतां लोकान्स राजन्प्रतिपद्यते।।

वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम्।
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः।।

दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते।।

गोप्रदानरतो याति भित्त्वा जलदसञ्चयान्।
विमानेनार्कवर्णेन दिवि राजन्विराजता।।

तं चोरुवेषाः सुश्रोण्यः सहस्रं वारयोपितः।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम्।।

वीणानां वल्लकीनां च नू पुराणां च शिञ्जितैः।
हासैश्च हरिणाक्षीणां सुप्तः सुप्रतिबोध्यते।।

यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावन्ति वर्षाणि महीयते सः।
स्वर्गच्युतश्चापि ततो नृलोके
कुले प्रसूतो विपुले विशोकः।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः।। 114