अनुशासनपर्व

अध्यायः ११३

Anusasana Parva (Sanskrit) · Adhyaya 113
अक्षर का आकार

वैशम्पायन उवाच।

एवमुक्त्वा ततो भीष्मः पुनर्धर्मसुतं नृपम्।
जनमेजयभूपाल उवाचेदं सहेतुकम्।।

एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्।
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः।।

सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्।
पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे।।

त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ।
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम्।।

भीष्म उवाच।

तस्मै प्रोवाच वचनं प्रणताय हितं तदा।
गवामुपनिषद्विद्यां नमस्कृत्य गवां शुचिः।।

गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्।।

गावो भूतं च भव्यं च गावः पुष्टिः सनातनी।
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति।।

अन्नं हि परमं गावो देवानां परमं हविः।
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ।।

गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः।
गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः।।

सायं प्रातश्च सततं होमकाले महाद्युते।
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ।।

यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च।
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो।।

एकां च दशगुर्दद्याद्दश दद्याच्च गोशती।
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते।।

अनाहिताग्निः शतगुरयज्वा च सहस्रगुः।
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः।।

कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्।
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते।।

युवानमिन्द्रियोपेतं शतेन सहयूथपम्।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम्।।

वृषबं ये प्रयच्छन्ति श्रोत्रियाय परन्तप।
ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनःपुनः।।

नाकीर्तयित्वा गाःक सुप्यात्तासां संस्मृत्य चोत्पतेत्।
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्।।

गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन।
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाऽऽप्नुयात्।।

गाश्च संकीर्तयन्नित्यं नावमन्येत तास्तथा।
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत्।।

गोमयेन सदा स्नायाद्गोकरीषे च संविशेत्।
श्लोष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत्।।

सार्द्रे चर्मणि भुञ्जीत निरीक्षेद्वारुणीं दिशम्।
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं सदाऽऽश्नुते।।

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्।
घृतं दद्याद्धृतं प्राशेद्गवां व्युष्टिं सदाऽऽश्नुते।।

गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः।
सर्वरत्नमयीं दद्यान्न स शोचेत्कृताकृते।।

गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः।
सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा।।

गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा।
गावोस्माकं वयं तासां यतो गावस्ततो वयम्।।

एवं रात्रौ दिवा चापि समेषु विषमेषु च।
महाभयेषु च नरः कीर्तयन्मुच्यते भवात्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः।। 113 ।।