अनुशासनपर्व

अध्यायः ११२

Anusasana Parva (Sanskrit) · Adhyaya 112
अक्षर का आकार

वैशम्पायन उवाच।

ततो युधिष्ठिरे राजा भूयः शान्तनवं नृपम्।
गोदानविस्तरं धीमान्पप्रच्छ विनयान्वितः।।

गोप्रदानगुणान्सम्यक् पुनर्मे ब्रूहि भारत।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्।।

इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्।।

भीष्म उवाच।

वत्सलां गुणसम्प्रन्ना तरुणीं वस्त्रसंयुताम्।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते।।

असुर्या नाम ते लोका गां दत्त्वा तान्न गच्छति।

पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम्।
जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम्।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत्।।

रुष्टा दुष्टा व्याधिता दुर्बला वा
नो दातव्या याश्च मूल्यैरदत्तैः।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति
तस्याऽवीर्याश्चाफलाश्चैव लोकाः।।

बलान्विताः शीलवीर्योपपन्नाः
सर्वे प्रशंसन्ति सुगन्धवत्यः।
यथा हि गङ्गा सरितां वरिष्ठा
तथाऽर्जुनीनां कपिला वरिष्ठा।।

युधिष्ठिर उवाच।

कस्मात्समाने बहुलाप्रदाने
सद्भिः प्रशस्तं कपिलाप्रदानम्।
विशेषमिच्छामि महाप्रभावं
श्रोतुं समर्थोस्मि भवान्प्रवक्तुम्।।

भीष्म उवाच।

वृद्धानां ब्रुवतां श्रुत्वा कपिलानामथोद्भवम्।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा।।

प्रजाः सृजेति चादिष्टः पूर्वं दक्षः स्वयंभुवा।
नासृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया।।

यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो।।

अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः।
ब्राह्मणाश्च ततः श्रेष्ठास्तषु यज्ञाः प्रतिष्ठिताः।।

यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः।
ताभ्यो देवाः प्रमोदन्ते प्रजानां वृत्तिरासु च।।

ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः।
प्रजापतिमुपाधावन्विनिश्चित्य चतुर्मखम्।।

प्रजातान्येव भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत्।।

इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः।
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा।
शंसतस्तस्य तृप्तिं तु गन्धात्सुरभिरुत्थिता।।

मुखजा साऽसृजद्धातुः सुरभिर्लोकमातरम्।
दर्शनीयरसं वृत्तिं सुरभिं मुखजां सुताम्।।

साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातृकाः।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः।।

तासाममृतवृत्तीनां क्षरन्तीनां समन्ततः।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः।।

स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः।
शिरस्यवापतत्क्रुद्धः स तदैक्षत च प्रभुः।
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव।।

तत्तेजस्तु ततो रौद्रं कपिलां गां विशाम्पते।
नानावर्णत्वमनयन्मेघानिव दिवाकरः।।

यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः।
यथोत्पन्नाः स्ववर्णस्था न नीताश्चान्यवर्णतां।।

अथ क्रुद्धं महादेवं प्रजापतिरभाषत।
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्।।

यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः।
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः।।

न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः।
नामृतेनामृतं पीतं न वत्सैर्दुष्यते पयः।।

इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्रवेण च।
आसामैश्वर्यमिच्छन्ति सर्वेऽमृतमयं शुभम्।।

वृषभं च ददौ तस्मै भगवाँल्लोकभावनः।
प्रसादयामास मनस्तेन रुद्रस्य भारत।।

प्रीतश्चापि महादेवश्चकार वृषभं तदा।
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः।।

ततो देवैर्महादेवस्तदा पशुपतिः कृतः।
ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः।।

एवमव्यग्रवर्णानां कपिलानां महौजसाम्।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः।।

लोकज्येष्ठा लोकवृत्तिप्रवृत्ता
रुद्रोद्भूताः सोमविष्यन्दभूताः।
सौम्याः पुण्याः कामदाः प्राणदाश्च
गा वै दत्त्वा सर्वकामप्रदः स्यात्।।

इदं गवां प्रभवविधानमुत्तमं
पठन्सदा शुचिरपि मङ्गलप्रियः।
विमुच्यते कलिकलुषेण मानवः
प्रियान्सुतान्धनपशुमाप्नुयात्सदा।।

हव्यं कव्यं तर्पणं शान्तिकर्म
यानं वासो वृद्धबालस्य तुष्टिः।
एतान्सर्वान्गोप्रदाने गुणान्वै
दाता राजन्नाप्नुयाद्वै सदैव।।

वैशम्पायन उवाच।

पितामहस्याथ निशम्य वाक्यं
राजा सह भ्रातृभिराजमीढः।
सुवर्णवर्णानडुहस्तथा गाः
पार्थो ददौ ब्राह्मणसत्तमेभ्यः।।

तथैव तेभ्योपि ददौ द्विजेभ्यो
गवां सहस्राणि शतानि चैव।
यज्ञान्समुद्धिश्य च दक्षिणार्थे
लोकान्विजेतुं परमां च कीर्तिम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112 ।।