अनुशासनपर्व
अध्यायः १११
युधिष्ठिर उवाच।
विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः।
येन ताञ्शाश्वताँल्लोकानर्थिनां प्राप्नुयादिह।।
भीष्म उवाच।
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम्।।
सतामर्थे सम्यगुत्पादितो यः
स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः।
तस्मात्पूर्वं ह्यादिकालप्रवृत्तं
गोदानार्थं शृणु राजन्विधिं मे।।
पुरा गोष्ठे निलीनासु गोषु सन्दिग्धदर्शिना।
मांधात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत।।
द्विजानामन्त्र्य सत्कृत्य प्रोक्तं कालमुपोष्य च।
गोदानार्थे प्रयुञ्जीत रोहिणीं नियतव्रतः।।
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च।
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत्।।
गौर्मे माता वृषभः पिता मे
दिवं गर्भं जगती मे प्रतिष्ठा।
प्रपद्यैवं शर्वरीमुष्य गोषु
पुनर्वाणीमुत्सृजेद्गोप्रदाने।।
स तामेकां निशां गोभिः समसख्यः समव्रतः।
ऐकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते।।
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने।
त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव।।
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे
गर्भोऽमृतस्य जगतश्च प्रतिष्ठा।
क्षिते रोहः प्रवहः शश्वदेव।
प्राजापत्याः सर्वमित्यर्थवादाः।।
गावो ममैनः प्रणुदन्तु सौर्या-
स्तथा सौम्याः स्वर्गयानाय सन्तु।
आत्मानं मे मातृवच्चाश्रयन्तु
तथाऽनुक्ताः सन्तु सर्वाशिषो मे।।
शोषोत्सर्गे कर्मभिर्देहमोक्षे
सरस्वत्यः श्रेयसे सम्प्रवृत्ताः।
यूयं नित्यं सर्वपुण्योपवाह्यां
दिशध्वं मे गतिमिष्टां प्रसन्नाः।।
या वै यूयं सोऽहमद्यैव भावो
युष्मान्दत्त्वा चाहमात्मप्रदाता।
मनश्च्युता मन एवोपपन्नाः
सन्धुक्षध्वं सौम्यरूपाग्र्यदेहाः।।
दानस्याग्रे पूर्वमेतद्वदेत
गवां दाता विधिवत्पर्वदृष्टम्।
प्रतिब्रूयाच्छेषमर्धंद्विजातिः
प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः।।
गां ददानीति वक्तव्यमर्घ्यमुत्सृज्य सुव्रतः।
ऊढव्या भरितव्या च वैष्णवीति च चोदयेत्।।
नाम सङ्कीर्तयेत्तस्या यथासंख्योत्तरं स वै।
फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः।।
एवमेतान्गुणान्विद्याद्गवादीनां यथाक्रमम्।
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे।।
गोदः शीली निर्भयश्चार्घदाता
न स्याद्दुःखी वसुदाता च कामम्।
उपस्योढा भारते यश्च विद्वा-
न्विख्यातास्ते वैष्णवाश्चन्द्रलोकाः।।
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं
निशां चैकां संवसेतेह ताभिः।
काम्याष्टभ्यां वर्तितव्यं त्रिरात्रं
रसैर्वा गोः शकृता प्रश्नवैर्वा।।
देवव्रती स्याद्वृषभप्रदाने
वेदावाप्तिर्गोयुगस्य प्रदाने।
तथा गवां विधिमासाद्य यज्वा
लोकानग्र्यान्विन्दते गोविधिज्ञः।।
कामान्सर्वान्पार्थिवानेकसंस्था-
न्यो वै दद्यात्कामदुघां च धेनुम्।
सम्यक्ताः स्युर्हव्यकव्यौघवत्य
स्तासामुक्ष्णां ज्यायसां सम्प्रदानम्।।
न चाशिष्यायाव्रतायोपकुर्या-
न्नाश्रद्दधानाय न वक्रबुद्धये।
गुह्यो ह्ययं सर्वलोकस्य धर्मो
नेमं धर्मं यत्र तत्र प्रजल्पेत्।।
सन्ति लोके श्रद्दधाना मनुष्याः
सन्ति क्षुद्रा राक्षसमानुषेषु।
एषामेतद्दीयमानं ह्यनिष्टं
ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः।।
बार्हस्पत्यं वाक्यमेतन्निशम्य
ये राजानो गोप्रदानानि दत्त्वा।
लोकान्प्राप्ताः पुण्यशीलाः प्रवृत्ता-
स्तान्मे राजन्कीर्त्यमानान्निबोध।।
उशीनरो विश्वगश्वो नृगश्च
भगीरथो विश्रुतो यौवनाश्वः।
मान्धाता वै मुचुकुन्दश्च राजा
भूरिद्युम्नो नैषधः सोमकश्च।।
पुरूरवा भरतश्चक्रवर्ती
यस्यान्ववाये भरताः सर्व एव।
तथा वीरो दाशरथिश्च रामो
ये चाप्यन्ये विश्रुताः कीर्तिमन्तः।।
तथा राजा पृथुकर्मा दिलीपो
दिवं प्राप्तो गोप्रदानैर्विधिज्ञः।
यज्ञैर्दानैस्तपसा राजधर्मै-
र्मांधाताऽभूद्गोप्रदानैश्च युक्तः।।
तस्मात्पार्थ त्वमपीमां मयोक्तां
बार्हस्पतीं भारतीं धारयस्व।
द्विजाग्र्येभ्यः सम्प्रयच्छस्व प्रीतो
गाः पुण्या वै प्राप्य राज्यं कुरूणाम्।।
वैशम्पायन उवाच।
तथा सर्वं कृतवान्धर्मराजो
भीष्मेणोक्तो विधिवद्गोप्रदाने
स मान्धातुर्वेद देवोपदिष्टं
सम्यग्धर्मं धारयामास राजा।।
इति नृप सततं गवां प्रदाने
यवशकलान्सह गोमयैः पिबानः।
क्षितितलशयनः शिखी यतात्मा
वृष इव राजवृषस्तदा बभूव।।
नरपतिरभवत्सदैव ताभ्यः
प्रयतमनास्त्वभिसंस्तुवंश्च गा वै।
नृपतिधुरि च गामयुक्त भूप-
स्तुरगवरैरगमच्च यत्र तत्र।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकादशाधिकशततमोऽध्यायः।। 111