अनुशासनपर्व

अध्यायः ११०

Anusasana Parva (Sanskrit) · Adhyaya 110
अक्षर का आकार

युधिष्ठिर उवाच।

विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो।
प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह।।

व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते।
नियमानां फलं किं च स्वधीतस्य च किं फलम्।।

दमस्येह फलं किं च वेदानां धारणे च किम्।
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम्।।

अप्रतिग्राहके किं च फलं लोके पितामह।
तस्य किञ्च फलं दृष्टं श्रुतं यस्तु प्रयच्छति।।

स्वकर्मनिरतानां च शूराणां चापि किं फलम्।
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्।

पितृशुश्रूषणे किञ्च मातृशुश्रूषणे तथा।
आचार्यगुरुशुश्रूषा स्वनुक्रोशानुकम्पने।।

एतत्सर्वमशेषेण पितामह यथातथम्।
वेतुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे।।

भीष्म उवाच।

यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते।
अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः।।

नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते।
नियमानां क्रतूनां च त्वयाऽवाप्तमिदं फलम्।।

स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च।
इह लोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते।।

दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे।
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः।
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः।।

प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः।
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव।।

स्वर्गे यथा प्रमोदन्ते तपसा विक्रमेण च।
दानैर्यज्ञैश्च विविधैस्तथा दान्ताः क्षमान्विताः।।

दानाद्दमो विशिष्टो हि ददत्किञ्चिद्द्विजातये।
दाता कुप्यति नो दान्तस्तस्माद्दानात्परंदमः।।
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः।
क्रोधो हन्ति हि यद्दानं तस्माद्दानाद्वरो दमः।।

अदृश्यानि महाराज स्थानान्ययुतशो दिवि।
ऋषीणां सर्वलोकषु यानि ते यान्ति देवताः।।

दमेन यानि नृपते गच्छन्ति परमर्षयः।
कामयाना महत्स्थानं तस्माद्दानात्परं दमः।।

`विद्यादानाद्वरं नास्ति वेदविद्या महाफलाः।
अध्यापकः परिक्लेशादक्षयं फलमश्नुते।।

विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप।
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति।
गुरुकर्मप्रशंसी तु सोपि स्वर्गे महीयते।।

क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि।
युद्धे यश्च परित्राता सोपि स्वर्गे महीयते।।

वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्।
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयाऽऽर्च्छति।।

शूरा बहुविधाः प्रोक्तास्तेषामर्थास्तु मे शृणु।
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि।।

यज्ञशूरा दमे शूराः सत्यशूरास्तथा परे।
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः।।

`बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथा परे।
साङ्ख्यशूराश्च बहवो योगशूरास्तथा परे।
अरण्ये गृहवासे च त्यागे शूरास्तथा परे।।

आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः।
तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे।
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः।।

गुरुशुश्रूषया शूराः पितृशुश्रूषया परे।
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथा परे।।

अरण्ये गृहवासे च शूराश्चातिथिपूजने।
सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान्।।

धारणं सर्ववेदानां सर्वतीर्थावगाहनम्।
सत्यं च ब्रुवतो नित्यं समं वा स्यान्नवा समम्।।

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते।।

सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते।
सत्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम्।।

सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा।
सत्यमाहुः परो धर्मस्तस्मात्सत्यं न लोपयेत्।।

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः।
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते।।

सत्यवन्तः सत्यलोके मोदन्ते भरतर्षभ।
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया।।

असंशयं विनीतात्मा स वै स्वर्गे महीयते।
ब्रह्मचर्यस्य च गुणं शृणु त्वं वसुधाधिप।।

आजन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह।
न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप।।

बह्व्यः कोट्यस्त्वषीणां तु ब्रह्मलोके वसन्त्युत
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम्।।

ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम्।
ब्राह्मणेन विशेषेण ब्राह्ममो ह्यग्निरुच्यते।।

प्रत्यक्षं हि तथा ह्येतद्ब्राह्मणेषु तपस्विषु।
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः।।

तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते।
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु।।

शुश्रूषते यः पितरं न चासूयेत्कदाचन।
मातरं भ्रातरं वाऽपि गुरुमाचार्यमेव च।।

तस्य राजन्फलं विद्धि स्वर्लोके स्थानमर्चितम्।
न च पश्येत नरकं गुरुशुश्रूषयाऽऽत्मवान्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि दशाधिकशततमोऽध्यायः।। 110 ।।