अनुशासनपर्व
अध्यायः १०९
इन्द्र उवाच।
जान्यो गामपहरेद्विक्रीयाच्चार्थकारणात्।
एतद्विज्ञातुमिच्छामि कानु तस्य गतिर्भवेत्।।
पितामह उवाच।
भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते।
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम्।।
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः।
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः।।
घातकः खादको वाऽपि तथा यश्चानुमन्यते।
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति।।
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके।
विक्रये चापहारे च ते दोषा वै स्मृता गवाम्।।
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति।
यावद्दाने तु यो गां वै ब्राह्मणाय प्रयच्छति।
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते।
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम्।।
गोप्रदानात्तारयते सप्त पूर्वांस्तथाऽपरान्।
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते।।
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा।
सुवर्णं पावनं शक्र पावनानां परं स्मृतम्।।
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो।
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते।।
भीष्म उवाच।
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ।
इन्द्रो दशरथायाह रामायाह पिता तथा।।
राघवोपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने।
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो।।
पारम्पर्यागतं चेदमृषयः संशितव्रताः।
दुर्धरं दारयामासू राजानश्चैव धार्मिकाः।।
उपाध्यायेन गदितं मम चेदं युधिष्ठिर।।
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि।
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे।।
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा।
इति ब्रह्मा स भगवानुवाच परमेश्वरः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि नवाधिकशततमोऽध्यायः।। 109 ।।