अनुशासनपर्व
अध्यायः १०
युधिष्ठिर उवाच।
कर्मणां च समस्तानां फलिनां भरतर्षभ।
फलानि महतां श्रेष्ट प्रब्रूहि परिपृच्छतः।।
भीष्म उवाच।
हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत।
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर।
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता।।
येनयेन शरीरेण यद्यत्कर्म करोति यः।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते।।
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि।।
न नश्यति कृतं कर्म चित्तपञ्चेन्द्रियैरिह।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा शुभाशुभे।।
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः।।
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्।।
स्थण्डिलेषु शयानानां गृहाणि शयनानि च।
चीरवल्कलसंवीते वासांस्याभरणानि च।।
वाहनानि च यानानि योगात्मनि तपोधने।
अग्नीनुपशयानस्य राज्ञः पौरुषमेव च।।
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति।
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति।।
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत्।
मण्डूकशायी च नरो लभते चेप्सितां गतिम्।।
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः।।
वीरासनं वीरशय्यां वीरस्थानमुपासतः।
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा।।
धनं लभेत दानेन मौनेनाज्ञां विशांपते।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम्।।
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत्।।
प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते।
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः।।
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम्।।
सलिलाशी भवेद्यस्तु सदाग्निः संस्कृतो द्विजः।
मरुत्साधयतो राज्यं नाकपृष्ठमनाशिने।।
उपवासं च दीक्षायामभिषेकं च पार्थिव।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते।।
अधीत्य सर्ववेदान्वै सद्यो दुःखाद्विमुच्यते।
`तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम्।।
वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम्।'
मानसं हि चरन्धर्म स्वर्गलोकमुपाश्नुते।।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योसौप्राणान्तिकोरोगस्तांतृष्णां त्यजतः सुखं।।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति।।
अचोद्यमानानि यथा पुष्पाणि च फलानि च।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम्।।
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते।।
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः।
माता च येन प्रीणाति पृथिवी तेन पूजिता।
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम्।।
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः।।
वैशम्पायन उवाच।
भीष्मस्यैतद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः।
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा।।
यन्मन्त्रे भवति वृथोपयुज्यमाने
यत्सोमे भवति वृथाऽभिषूयमाणे।
यच्चाग्नौ भवति वृथाऽभिहूयमाने
तत्सर्वं भवति वृथाऽभिधीयमाने।।
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि भारत।
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि दशमोऽध्यायः।। 10 ।।