अनुशासनपर्व
अध्यायः १०८
पितामह उवाच।
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानादिकारितः।
नान्यः प्रष्टास्ति लोकेस्मिंस्त्वत्तोन्यो हि शतक्रतो?
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि।
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः।।
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा।
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभबुद्धयः।।
शरीरन्यासमोक्षेण मनसा निर्मलेन च।
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः।।
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः।
न तत्र क्रमते कालो न जरा न च पावकः।।
तथा नास्त्यशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः।
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव।।
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात्।
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते।।
वाप्यः सरांसि सरितो विविधानि वनानि च।
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन।।
मनोज्ञं सर्वभूतेभ्यस्तद्वनं तत्र दृश्यते।
ईदृशान्विद्दि ताँल्लोकान्नास्ति लोकस्तथाविधः।।
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः।
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः।।
यः सर्वमांसानि न भक्षयीत
पुमान्सदा भावितो धर्मयुक्तः।
मातापित्रोरर्चिता सत्ययुक्तः
शुश्रुषिता ब्राह्मणानामनिन्द्यः।।
अक्रोधनो गोषु तथा द्विजेषु
धर्मे रतो गुरुशुश्रूषकश्च।
यावज्जीवं सत्यवृत्ते रतश्च
दाने रतो यः क्षमी चापराधे।।
मृदुर्दान्तो देवपरायणश्च
सर्वातिथिश्चापि यथा दयावान्।
ईदृग्गुणो मानवस्तं प्रयाति
लोकं गवां शाश्वतं चाव्ययं च।।
न पारदारी पश्यति लोकमेतं
न वै गुरुघ्नो न मृषा सम्प्रलापी।
सदापवादी ब्राह्मणेष्वात्तवैरो
दोषैरन्यैर्यश्च युक्तो दुरात्मा।।
न मित्रध्रुङ्नैकृतिकः कृतघ्नः
शठोऽनुजुर्धर्मविद्वेषकश्च।
न ब्रह्महा मनसाऽपि प्रपश्ये-
द्गवां लोकं पुण्यकृतां निवासम्।।
एतत्ते सर्वमाख्यातं नैपुण्येन सुरेश्वर।
गोप्रदानरतानां तु फलं शृणु शतक्रतो।।
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति।
धर्मार्जितान्धैः क्रीतान्स लोकानाप्नुतेऽक्षयान्।।
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति।
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते।।
दायाद्याद्याः स्म वै गावो न्यायपूर्वैरुपार्जिताः।
प्रदद्यात्ताः प्रदातॄणां सम्भवन्त्यपि च ध्रुवाः।।
प्रतिगृह्य तु यो दद्याद्गाः संशुद्धेनि चेतसा।
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते।।
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः।
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः।।
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते।
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः।।
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु।
गोसहस्रेण समिता तस्य धेनुर्भवत्युत।।
क्षत्रियस्य गुणैरतैरन्वितस्य फलं शृणु।
सप्तार्धशततुल्या गौर्भवतीति विनिश्चयः।।
वैश्यस्यैते यदि गुणास्तस्य पञ्चशतं भवेत्।
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम्।।
एतच्चैनं योऽनुतिष्ठेत युक्तः
सत्ये रतो गुरुशुश्रूषया च।
दक्षः क्षान्तो देवतार्थी प्रशान्तः
शुचिर्बुद्धो धर्मशीलोऽनहंवाक्।।
महत्फलं प्राप्यते सद्द्विजाय
दत्त्वा दोग्ध्रीं विधिनाऽनेन धेनुम्।
नित्यं दद्यादेकभक्तः सदा च
सत्ये स्थितो गुरुशुश्रुषिता च।।
वेदाध्यायी गोषु यो भक्तिमांश्च
नित्यं दत्त्वा योऽभिनन्देत गाश्च।
आजातितो यश्च गवां नमेत
इदं फलं शक्र निबोध तस्य।।
यत्स्यादिष्ट्वा राजमूये फलं तु
यत्स्यादिष्ट्वा बहुना काञ्चनेन।
एततुल्यं फलमप्याहुरग्र्यं
सर्वे संन्तस्त्वषयो ये च सिद्धाः।।
योऽग्रं भक्तं किञ्चिदप्राश्य दद्या-
द्गोभ्यो नित्यं गोव्रती सत्यवादी।
शान्तोऽलुब्धो गोसहस्रस्य पुण्यं
संवत्सरेणाप्नुयात्सत्यशीलः।।
यदकेभक्तमश्नीयाद्दद्यादेकं गवां च यत्।
दशवर्षाण्यनन्तानि गोव्रती गोनुकम्पकः।।
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति।
यावन्ति तस्या रोमाणि सम्भवन्ति शतक्रतो।।
तावच्छतानां स गवां फलमाप्नोति शाश्वतम्।
ब्राह्मणस्य फलं हीदं क्षत्रियस्य तु वै शृणु।।
पञ्चवार्षिकमेवं तु क्षत्रियस्य फलं स्मृतम्।
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः।।
यश्चात्मावेक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति।
यावत्संदर्शयेद्गां वै स तावत्फलमश्नुते।।
रोम्णि रोम्णि महाभाग लोकाश्चास्याक्षयाः स्मृताः
सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति।
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक।।
अभावे यो गवां दद्यात्तिलधेनुं यतव्रतः।
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदत्ते।।
न त्वेवासां दानमात्रं प्रशस्तं
पात्रं कालो गोविशेषो विधिश्च।
कालज्ञानं विप्रगवान्तरं हि
दुःखं ज्ञातुं पावकादित्यभूतम्।।
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं
वैतानस्थं पापभीरुं बहुज्ञम्।
गोषु क्षान्तं नातितीक्ष्णं शरण्यं
वृत्तिग्लानं तादृशं पात्रमाहुः।
वृत्तिग्लाने सीदति चातिमात्रं
तुष्ट्यर्थं वा होम्यहेतोः प्रसूतेः।
गुर्वर्थं वा बालसंवृद्धये वा
धेनुं दद्याद्देशकाले विशिष्टे।।
अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः
प्राणैः क्रीतास्तेजसा यौतकाश्च।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च
द्वारैरेतैर्गोविशेषाः प्रशस्ताः।।
बलान्विताः शीलवयोपपन्नाः
सर्वाः प्रशंसन्ति सुगन्धवत्यः
यथा हि गङ्गा सरितां वरिष्ठा
तथाऽर्जुनीनां कपिला वरिष्ठा।।
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ
तृप्ता गावस्तर्पितेभ्यः प्रदेयाः।
वत्सैः पुष्टैः क्षीरपैः सुप्रचारा-
स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्।।
दत्त्वा धेनुं सुव्रतां साधुदोहां
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावन्ति वर्षामि भवन्त्यमुत्र।।
तथाऽनड्वाहं ब्राह्मणाय प्रदाय
धुर्यं युवानं बलिनं विनीतम्।
हलस्य वोढारमनन्तवीर्यं
प्राप्नोति लोकान्दशधेनुदस्य।।
कान्ताराद्ब्राह्म्णान्गाश्च यः परित्राति कौशिक।
क्षेमेण स विमुच्येत तस्य पुण्यफलं शृणु।।
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम्।
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते।।
लोकान्बहुविधान्दिव्यान्यच्चास्य हृदि वर्तते।
तत्सर्वं समवाप्नोति कर्मणैतेन मानवः।।
गोभिश्च समनुज्ञातः सर्वत्र च महीयते।
यस्त्वेतेनैव कल्पेन गां वनेष्वनुगच्छति।।
तृणगोमयपर्णाशी निस्पृहो नियतः शुचिः।
अकामं तेन वस्तव्यं मुदितेन शतक्रतो।।
मम लोके वसति स लोके वा यत्र चेच्छति।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि अष्टाधिकशततमोऽध्यायः।। 108 ।।