अनुशासनपर्व
अध्यायः १०५
भीष्म उवाच।
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने।
नृगेण सुमहत्कृच्छ्रुं यदवाप्तं कुरूद्वह।।
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः।
अदृश्यत महाकूपस्तृणवीरुत्समावृतः।
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः।
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते।।
ददृशुस्ते महाकायं कृकलासमवस्थितम्।
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः।।
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम्।
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम्।।
खमावृत्योदपानस्य कृकलासः स्थितो महान्।
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन्।।
स वासुदेवेन समुद्धृतश्च
पृष्टश्च कामान्निजगाद राजा।
नृगस्तदाऽऽत्मानमथो न्यवेदय-
त्पुरातनं यज्ञसहस्रयाजिनम्।।
तथा ब्रुवाणं तु तमाह माधवः
शुभं त्वया कर्म कृतं न पापकम्।
कथं भवान्दुर्गतिमीदृशीं गतो
नरेन्द्र तद्ब्रूहि किमेतदीदृशम्।।
शतं सहस्राणि गवां शतं पुनः
पुनः शतान्यष्टशतायुतानि।
नृप द्विजेभ्यः क्व नु तद्गतं तव।।
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः।
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने।।
गवां सहस्रे संख्याता तदा सा पशुपैर्मम।
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता।।
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः।
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत्।।
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ।
भवान्दाता भवान्हर्तेत्यथ तौ मामवोचताम्।।
शतेन शतसङ्ख्येन गवां विनिमयेन वै।
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम्।।
देशकालोपसम्पन्ना दोग्ध्री शान्ताऽतिवत्सला।
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने।।
कृशं च भरते सा गौर्मम पुत्रमपस्तनम्।
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह।।
ततस्तमपरं विप्रं याचे विनिमयेन वै।
गवां शतसहस्रं हि तत्कृते गृह्यतामिति।।
ब्राह्मण उवाच।
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन।।
रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा।
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः।।
एतस्मिन्नेव काले तु चोदितः कालधर्मणा।
पितृलोकमहं प्राप्य धर्मराजमुपागमम्।।
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्।
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः।।
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया।
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि।।
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव।
ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः।।
पूर्वं कृच्छं चरिष्येऽहं पश्चाच्छुभमिति प्रभो।
धर्मराजं ब्रुवन्नेवं पतितोस्मि महीतले।।
अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः।
वासुदेवः समुद्धर्ता भविता ते जनार्दनः।।
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते।
प्राप्लस्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा।।
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह।
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः।।
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्।
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै।।
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम्।
विमानं दिव्यमास्थाय ययौ दिवमरिन्दमः।।
ततस्तस्मिन्दिवं याते नृगे भरतसत्तम।
वासुदेव इमाञ्श्लोकाञ्जगाद कुरुनन्दन।।
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता।
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव।।
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते।
विमुक्तं नरकात्पश्य नृगं साधुसमागमात्।।
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाऽफलः।
अपहारं गवां तस्माद्वर्जयेत युधिष्ठिर।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः।। 105 ।।