अनुशासनपर्व
अध्यायः १०४
युधिष्ठिर उवाच।
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम्।
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः।।
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे।
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति।।
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः।
वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि।।
भीष्म उवाच।
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च।
सर्वकामफलानीह गावः पृथ्वी सरस्वती।।
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्।
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते।।
तथैव गाः प्रशंसन्ति न तु देयं ततः परम्।
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर।।
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः।
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः
सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत्।
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव गाः।।
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्।
पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम्।।
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः।
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम्।।
पितृसद्मानि सततं देवतायतनानि च।
पूयन्ते शकृता यासां पूतं किमधिकं ततः।।
घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्।।
स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति।
नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति।।
युधिष्ठिर उवाच।
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्।
कीदृशाय प्रदातव्या न देयाः कीदृशाय च।।
भीष्म उवाच।
असद्वृत्ताय पापाय लुब्धायानृतवादिने।
हव्यकव्यव्यपेताय न देया गौः कथञ्चन।।
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये।
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान्।।
`जुहोति यद्भोजयति यद्ददाति गवां रसैः।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः।।'
यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत्।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः।।
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात्।
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः।।
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः।।
वेदान्तनिष्ठस्य बहुश्रुतस्य
प्रज्ञानतृप्तस्य जितेन्द्रियस्य।
शिष्टस्य दान्तस्य यतस्य चैव
भूतेषु नित्यं प्रियवादिनश्च।।
यः क्षुद्भयाद्वै न विकर्म कुर्या-
न्मृदुश्च शान्तौ ह्यतिथिप्रियश्च।
शुभे पात्रे ये गुणा गोप्रदाने
तावान्दोषो ब्राह्मणस्वापहारे।
सर्वावस्थं ब्राह्मणस्वापहारे
दाराश्चैषां दूरतो वर्जनीयाः।।
`विप्रदारे परिहृते तद्धनेऽपहृते च तु।
परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृताश्च ये।।
न पालयन्ति निहतान्ये तान्वैवस्वतो यमः।
दण्डयन्भर्सयन्नित्यं निरयेभ्यो न मुञ्चति।।
तथा गवां परित्राणे पीडने च शुभाशुभम्।
विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा।।'
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुरधिकशततमोऽध्यायः।। 104 ।।