अनुशासनपर्व
अध्यायः १०६
युधिष्ठिर उवाच।
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ।
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम्।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः।।
ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम्।
त्वं मामुपचरस्वेति नाचिकेतमभाषत।।
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत्।
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च।।
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम्।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज।।
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम्।
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः।।
क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा।
यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः।।
तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः।
प्रसीदेति ब्रुवन्नेव गतसत्वोऽपतद्भुवि।।
नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः।
किं मया कृतमित्युक्त्वा निपपात महीतले।।
तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः।
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी।।
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह।
प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम्।।
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम्।।
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा।
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः।।
प्रत्यक्षदार्शी सर्वस्य वित्रा पृष्टो महात्मना।
अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत्।।
कुर्वन्मवच्छासनमाशु यातो
ह्यहं विशालां रुचिरप्रभासाम्।
वैवस्वतीं प्राप्य सभामवश्यं
सहस्रशो योजनहैमभौमाम्।।
दृष्टैव मामभिमुखमापतन्तं
गृहं निवेद्यासनमादिदेश।
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च
भवत्कृते पूजयामास मां साः।।
ततस्त्वहं तं शनकैरवोचं
वृतः सदस्यैरभिपूज्यमानः।
प्राप्तोऽस्मि ते विषयं धर्मराज
लोकानर्हो यानहं तान्विधत्स्व।।
यमोऽब्रवीन्मां न मृतोसि सौम्य
यमं पश्येत्याह स त्वां तपस्वी।
पिता प्रदीप्ताग्निसमानतेजा
न तत्छक्यमनृतं विप्र कर्तुम्।।
दृष्टस्तेऽहं प्रतिगच्छस्व तात
शोचत्यसौ तव देहस्य कर्ता।
ददानि किञ्चापि मनःप्रणीतं
प्रियातिथेस्तव कामान्वृणीष्व।।
तेनैवमुक्तस्तमहं प्रत्यवोचं
प्राप्तोस्मि ते विषयं दुर्निवर्त्यम्।
इच्छाम्यहं पुण्यकृतां समृद्धाँ-
ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः।।
यानं समारोप्य तु मां स देवो
वाहैर्युक्तं सुप्रभं भानुमत्तम्।
संदर्शयामास तदाऽऽत्मलोका-
न्सर्वास्तथा पुण्यकृतां द्विजेन्द्र।।
अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम्।
नानासंस्थानरूपाणि सर्वरत्नमयानि च।।
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च।
अनेकशतभौमानि सान्तर्जलवनानि च।।
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च।
तरुणादित्यवर्णानि स्थावराणि चराणि च।।
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च।
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान्।।
नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः।
घोषवन्ति च यानानि युक्तान्धथ सहस्रशः।।
क्षीरस्रवा वै सरितो गिरींश्च
सर्पिस्तथा विमलं चापि तोयम्।
वैवस्वतस्यानुमतांश्च देशा-
नदृष्टपूर्वान्सुबहूनपश्यम्।।
सर्वान्दृष्ट्वा तदहं धर्मराज-
मवोचं वै सर्वदेवं सहिष्णुम्।
क्षीरस्यैताः सर्पिषश्चैव नद्यः
शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः।।
यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेता-
न्ये दातारः साधवो गोरसानाम्।
अन्ये लोकाः शाश्वता वीतशोकैः
समाकीर्णा गोप्रदाने रतानाम्।।
न त्वेतासां दानमात्रं प्रशस्तं
पात्रं कालो गोविशेषो विधिश्च।
ज्ञात्वा देयं विप्र गवान्तरं हि
दुःखं ज्ञातुं पावकादित्यभूतम्।।
स्वाध्यायवान्योऽतिमात्रं तपस्वी
वैतानस्थो ब्राह्मणः पात्रमासाम्।
गोषु क्षान्तं गोशरण्यं कृतज्ञं
वृत्तिग्लानं तादृशं पात्रमाहुः।।
कृच्छ्रोत्सृष्टाः पोष्णाभ्यागताश्च
द्वारैरेतैर्गोविशेषाः प्रशस्ताः।
अन्तर्जाताः सुक्रयज्ञानलब्धाः
प्राणक्रीताः सोदकाः सोद्वहाश्च।।
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ
तृप्ता गावस्तर्पितेभ्यः प्रदेयाः।
वत्सैः प्रीताः सुप्रजाः सोपचारा-
स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्।।
दत्त्वा धेनुं सुव्रतां साधुदोहां
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्।।
तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय
दान्तं धुर्यं बलवन्तं युवानम्।
कुलानुजीव्यं वीर्यवन्तं बृहन्तं
भुङ्क्ते लोकान्सम्मितान्धेनुदस्य।।
वृद्धे ग्लाने सम्भ्रमे वा महार्थे
कृष्यर्थं वा हौम्यहेतोः प्रमूत्याम्।
गुर्वर्थं वा यज्ञसमाप्तये वा
गां वै दातुं देशकालोऽविशिष्टः।।
नाचिकेत उवाच।
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम्।
अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति।।
ततोऽब्रवीद्यमो धीमान्गोप्रदानं ततो गतिम्।
गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः।।
अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः।
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव।।
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः।
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते।।
तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः।
स कामप्रवहां शीतीं नदीमेतामुपाश्नुते।।
एवमेतानि मे तत्र धर्मराजो न्यदर्शयत्।
दृष्ट्वा च परमं हर्षमवापमहमच्युत।।
निवेदये चाहमिमं प्रियं ते
क्रतुर्महानल्पधनप्रचारः।
प्राप्तो मया तात स मत्प्रसूतः
प्रपत्स्यते वेदविधिप्रवृत्तः।।
शापो ह्ययं भवतोऽनुग्रहाय
प्राप्तो मया यत्र दृष्टो यमो वै।
दानव्युष्टिं तत्र दृष्ट्वा महात्म-
न्निःसंदिग्धान्दानधर्मांश्चरिष्ये।।
इदं च मामब्रवीद्धर्मराजः
पुनः पुनः सम्प्रहृष्टो महर्षे।
दानेन यः प्रयतोऽभूत्सदैव
विशेषतो गोप्रदानं च कुर्याम्।।
शुद्धो ह्यर्थो नावमन्यस्व धर्मा-
न्पात्रे देयं देशकालोपपन्ने।
तस्माद्गावस्ते नित्यमेव प्रदेया
माभूच्च ते संशयः कश्चिदत्र।।
एताः पुरा ह्यददन्नित्यमेव
सान्तात्मानो दानपथे निविष्टाः।
तपांस्युग्राण्यप्रतिशङ्कमाना-
स्ते वै दानं प्रददुश्चैव शक्त्या।।
काले च शक्त्या मत्सरं वर्जयित्वा
शुद्धात्मानः श्रद्धिनः पुण्यशीलाः।
दत्त्वा गा वै लोकममुं प्रपन्ना
देदीप्यन्ते पुण्यशीलास्तु नाके।।
एतद्दानं न्यायलब्धं द्विजेभ्यः
पात्रे दत्तं प्रापणीयं परीक्ष्य।
काम्याष्टम्यां वर्तितव्यं दशाहं
रसैर्गवां शकृता प्रस्नवैर्वा।।
देवव्रती स्याद्वृषभप्रदानै-
र्वेदावाप्तिर्गोयुगस्य प्रदाने।
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने
पापोत्सर्गः कपिलायाः प्रदाने।।
गामप्येकां कपिलां सम्प्रदाय
न्यायोपेतां कलुषाद्विप्रमुच्येत्।
गवां रसात्परमं नास्ति किञ्चि-
द्गवां प्रदानं सुमहद्वदन्ति।।
गावो लोकांस्तारयन्ति क्षरन्त्यो
गावश्चान्नं संजनयन्ति लोके।
यस्तं जानन्न गवां हार्दमेति
स वै गन्ता निरयं पापचेताः।।
यैस्तद्दत्तं गोसहस्रं शतं वा
दशार्धं वा दश वा साधुवत्सम्।
अप्येका वै साधवे ब्राह्मणाय
सास्यामुष्मिन्पुण्यतीर्था नदी वै।।
प्राप्त्या पुष्ट्या लोकसंरक्षणेन
गावस्तुल्याः सूर्यपादैः पृथिव्याम्।
शब्दश्चैकः संनतिश्चोपभोगा-
स्तस्माद्गोदः सूर्य इवावभाति।।
गुरुं शिष्यो वरयेद्गोप्रदाने
स वै गन्ता नियतं स्वर्गमेव।
विधिज्ञानां सुमहान्धर्म एष
विधिं ह्याद्यं विधयः संविशन्ति।।
इदं दानं न्यायलब्धं द्विजेभ्यः
पात्रे दत्त्वा प्रापयेथाः परीक्ष्य।
त्वय्याशंसन्त्यमरा दानवाश्च
वयं चापि प्रसृते पुण्यशीले।।
इत्युक्तोऽहं धर्मराजं द्विजर्षे
धर्मात्मानं शिरसाऽभिप्रणम्य।
अनुज्ञातस्तेन वैवस्वतेन
प्रत्यागमं भगवत्पादमूलम्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षडधिकशततमोऽध्यायः।। 106 ।।