अनुशासनपर्व

अध्यायः १०३

Anusasana Parva (Sanskrit) · Adhyaya 103
अक्षर का आकार

युधिष्ठिर उवाच।

तिलानां कीदृशं दानमथ दीपस्य चैव हि।
अन्नानां वाससा चैव भूय एव ब्रवीहि मे।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर।।

मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह।
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः।।

पर्णशालेति विख्यातो रमणीयो नराधिप।
विद्वांशस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा।।

अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम्।
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम्।।

गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम्।।

शमे निविष्टं विद्वांसमध्यापकमनावृतम्।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः।।

स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना।
अपत्येषु तथा वृत्ते समस्तेनैव धीमता।
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे।।

स गत्वा प्रतिकूलं तच्चकार यमशासनम्।
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः।।

तस्मै यमः समुत्थाय पूजा कृत्वा च वीर्यवान्।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति।।

एवमुक्ते तु वचने धर्मराजेन स द्विजः।
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत।।

यम उवाच।

नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन।
यो हि धर्मं चरति वै तं तु जानामि केवलम्।।

गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते।
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत।।

ब्राह्मण उवाच।

शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम।।

यम उवाच।

शृणु तत्त्वेन विप्रर्पे प्रदानविधिमुत्तमम्।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम्।।

तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत।।

तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्।
तान्प्रयच्छस्व विप्रेभअयो विधिदृष्टेन कर्मणाः।।

वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु।
तिला भक्षयितव्याश्च सदा त्वालम्भं च तैः

कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे।
तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः।।

पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत्।
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम।।

आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्।
प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम।
भुक्तेऽप्यथ प्रदेयं तु पानीयं वै विशेषतः।।

`पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दत्त्वा त्वरान्वितः।
वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम्।।

गवां रोमप्रमाणेन स्वर्गभोगमुपाश्नुते।
जलबिन्दुप्रमाणेन तदेतान्युपवर्तय।।'।।

भीष्म उवाच।

इत्युक्ते स तदा तेन यमदूतेन वै गृहान्।
नीतश्च कारयामास सर्वं तद्यमशासनम्।।

नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा।
ययौ स धर्मराजाय न्यवेदयत चापि तम्।।

तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्।
कृत्वा च संविदं तेन विससर्ज यथागतम्।।

तस्यापि च यमः सर्वमुपदेशं चकार ह।
प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत्।।

तथा प्रशंसने दीपान्यमः पितृहितेप्सया।
तस्माद्दीपप्रदो नित्यं सन्तारति वै पितॄन्।।

दातव्याः सततं दीपास्तस्माद्भरतसत्तम।
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो।।

रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप।
यस्तान्विक्रीय यजते ब्राह्मणो ह्यभयंकरम्।।

यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च।।

यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित्।।

वाससां सम्प्रदानेनि स्वदारनिरतो नरः।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम।।

गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात्।।

विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि त्र्यधिकशततमोऽध्यायः।। 103 ।।