अनुशासनपर्व
अध्यायः १०२
युधिष्ठिर उवाच।
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्।
अन्नदानं विशेषेण प्रशस्तमिह भारत।।
पानीयदानमेवैतत्कथं चेह महाफलम्।
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह।।
भीष्म उवाच।
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ।।
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते फलम्।
न ताभ्यां परमं दानं किञ्चिदस्तीति मे मनः।।
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः।
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते।।
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा।
अन्नादानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः।।
सावित्र्या ह्यपि कौन्तेय श्रूयते वचनं शुभम्।
यच्चेदं नान्यथा चैतद्देव सत्रे महामखे।।
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत।
प्राणदानाद्धि परमं न दानमिह विद्यते।।
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः।
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा।।
यां गतिं लभते दत्त्वा द्विजस्यान्न विशाम्पते।
ततो विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतं।।
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम।
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते।।
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः।
अमृतं च सुधा चैव सुधा चैवामृतं तथा।।
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः।
यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते।।
देवानाममृतं ह्यन्नं नागानां च सुधा तथा।
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः।।
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः।
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते।।
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्।
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः।।
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते।
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः।।
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम्।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते।।
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते।
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि द्व्यधिकशततमोऽध्यायः।। 102 ।।