अनुशासनपर्व

अध्यायः १०१

Anusasana Parva (Sanskrit) · Adhyaya 101
अक्षर का आकार

युधिष्ठिर उवाच।

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ।
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह।।

भीष्म उवाच।

उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः।
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि।।

स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर।
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशाम्पते।।

उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम्।
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि।।

युधिष्ठिर उवाच।

यत्फलं तिलदाने च भूमिदाने च कीर्तितम्।
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव।।

भीष्म उवाच।

शृणुष्व मम कौन्तैय तिलदानस्य यत्फलम्।
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम।।

पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा।
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते।।

माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति।
सर्वसत्वसमाकीर्णं नरकं स न पश्यति।।

सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन्।
न चाकामेन दातव्यं तिलैः श्राद्धं कदाचन।।

महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः।
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो

पौष्टिका रूपदाश्चैव तथा पापविनाशनाः।
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते।।

आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा।
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः।।

तिलहोमरता विप्राः सर्वे संयतमैथुनाः।
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः।।

सर्वेषामिति दानानां तिलदानं विशिष्यते।
अक्षयं सर्वदानानां तिलदानमिहोच्यते।।

उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परन्तपः।
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम्।।

इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्।
विधानं येन विधिना तिलानामिह शस्यते।।

अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्।
समागमे महाराज ब्रह्मणा वै स्वयंभुवा।।

देवाः समेत्य ब्रह्माणं भूमिभागे यियश्रवः।
शुभं देशमयाचन्त यजेम इति पार्थिव।।

देवा ऊचुः।

भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च।
यजेम हि महाभाग यज्ञं भवदनुज्ञया।।

नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते।
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च।
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि।।

ब्रह्मोवाच।

ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः।
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः।।

दैवा ऊचुः।

भगवन्कृतकामाः स्म यक्ष्महे स्वाप्तदक्षिणैः।
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा।।

ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः।
असितो देवलश्चैव देवयज्ञमुपागमन्।।

ततो देवा महात्मान ईजिरे यज्ञमच्युतम्।
तथा समापयामासुर्यथाकालं सुरर्षभाः।।

त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे।
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे।

प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्।
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते।।

शीतवातातपसहां यागभूमिं सुसंस्कृताम्।
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते।।

मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव।
पतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते।।

अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः।
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते।।

तथा गवार्थे शरणं शीतवर्षसहं दृढम्।
आसप्तमं तारयति कुलं भरतसत्तम।।

क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात्।
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत्।।

न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन।
न श्मशानपरीतां च न च पापनिषेविताम्।।

पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः।
तद्भूमिं वाऽपि पितृभिः श्राद्धकर्म विहन्यते।।

तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः।
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः।।

अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च।
सर्वाण्यस्वामिकान्याद्दुर्न हि तत्र परिग्रहः।।

इत्येतद्भूमिदानस्य फलमुक्तं विशाम्पते।
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ।।

गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च।
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः।।

ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत।
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्।।

पयसा हविषा दध्ना शकृता चाथ चर्मणा।
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत।।

नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते।
न वर्षविषयं वाऽपि दुःखमासां भवत्युत।।

ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम्।
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः।।

रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः।
अतश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता।
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः।।

ता इमा विप्रमुख्येभ्यो यो ददाति महीपते।
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव।।

गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते।
सर्वत्र विजयं चापि लभते मनुजाधिप।।

अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः।
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति।।

अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः।
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति।।

स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्।
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते।।

प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ।
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति।।

गावः शरण्या भूतानामिति वेदविदो विदुः।
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति।।

न वधार्थं प्रदातव्या न कीनाशे न नास्तिके।
गोजीविने न दातव्या तथा गौर्भरतर्षभ।
`गोरसानां न विक्रेतू रसं च यजनस्य च।।'

ददत्स तादृशानां वै नरो गां पापकर्मणाम्।
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः।।

न कृशां नापवत्सां वा वन्ध्यां रोगान्वितां तथा।
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै।।

दशगोसहस्रदः सम्यक् शक्रेण सह मोदते।
अक्षयाँल्लभते लोकान्नरः शतसहस्रशः।।

इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम्।
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत।।

अन्नदानं प्रधानं हि कौन्तेय परिचक्षते।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः।।

श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप।
स्वायंभुवं महात्स्थानं स गच्छति नराधिप।।

न हिरण्यैर्न वासोभिर्नान्यदानेन भारत।
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो।।

अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता।
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा।।

सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः।
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः।।

अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्।
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवतः।।

कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते।।

अभुक्त्वाऽतिथेये चान्नं प्रयच्छेद्यः समाहितः।
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ।।

सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्।
पापं तरति चैवेह दुष्कृतं चापकर्षति।।

इत्येतदन्नदानस्य तिलदानस्य चैव ह।
भूमिदानस्य च फलं गोदानस्य च कीर्तितम्।।

।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकाधिकशततमोऽध्यायः।। 101 ।।