अनुशासनपर्व
अध्यायः ९
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ सर्वसास्त्रविशारद।
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत्।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर।।
दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत।
पुरा वसिष्ठो भगवान्पितामहमपृच्छत।।
ततः पद्मोद्भवो राजन्देवदेवः पितामहः।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्।।
`बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसम्भवः।
पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रवर्तते।।
स्कन्धात्प्रवर्तते पुष्पं पुष्पात्संवर्धते फलम्।
फलान्निर्वर्तते बीजं बीजात्स्यात्सम्भवः पुनः'।।
नाबीजं जायते किञ्चिन्न बीजेने विना फलम्।
बीजाद्बीजं प्रभवति नाबीजं विद्यते फलम्।।
यादृशं वपते बीजं क्षेत्रमासाद्य वापकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्।।
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्।
तथा पुरुषकारेण विना दैवं न सिध्यति।।
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्।
क्षेत्रबीजसमायोगात्ततः सस्यं समृद्ध्यते।।
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च।।
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्।।
कृती सर्वत्र लभते प्रतिष्ठां भाग्यवीक्षितः।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्।।
तपसा रूपसौभाग्यं रत्नानि विविधानि च।
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना।।
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता।
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते।।
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः।
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः।।
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्।
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः।।
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु।
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्।।
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्।
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्।।
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः।
स एष भगवान्विष्णुः समुद्रे तप्यते तपः।।
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्।
लोको दैवं समालक्ष्य उदासीनो भवेद्यदि।।
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते।
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना।।
न तथा मानुषे लोके फलमस्ति शुभाशुभे।
यथा त्रिदशलोके हि फलमल्पेन जायते।।
कृतः पुरुषकारस्तु दैवमेवानुवर्तते।
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति।।
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि।
कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः।।
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्।
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया।।
ऋषीणां देवतानां च सदा भवति विग्रहः।
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते।।
कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते।
एवं त्रिदशलोकेऽपि प्राप्यते परमं सुखम्।।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।
आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च।।
कृतं च विकृतं किञ्चित्सिद्ध्यते गुरुकर्मणा।
सुकृतं दुष्कृतं कर्म अकृतार्थं प्रपद्यते।।
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते।
पुण्यहीनं नरं प्राप्य किं दैवं प्रकरिष्यति।।
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ।
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः।।
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा।
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः।।
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः।
महर्षिशापात्सौदासः पुरुषादत्वमागतः।।
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ।
न गच्छतः स्वर्गलोकं वेददृष्टेन कर्मणा।।
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः।
मिथ्याभिधानेनैकेन रसातलतलं गतः।।
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः।
विष्णोः पुरुषकारेण पातालसदनः कृपः।।
शक्रस्याथ रथोपस्थे विष्ठितो जनमेजयः।
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः।।
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च।
वैशंपायनविप्रर्षिः किं दैवेन न वारितः।।
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे।
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः।।
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः।
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे।।
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः।
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात्।।
तपोनियमसंयुक्ता मुनयः संशितव्रताः।
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा।।
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्।
लोभमोहसमापन्नं न दैवं त्रायते नरम्।।
यथाऽऽग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान्भवेत्।
तथा कर्मसमायुक्तं दैवं साधु विवर्धते।।
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति।
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति।।
विपुलमपि धनौघं प्राप्य भोगान्त्रियो वा
पुरुष इह न शक्तः कर्महीनो हि भोक्तुम्।
सुविहितमपि चार्थं दैवते रक्ष्यमाणं
पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः।।
व्ययगुमपि साधुं कर्मणा संश्रयन्ते
भवती मनुजलोकाद्दैवलोको विशिष्टः।
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
पितृवनभवनाभं दृश्यते चामराणाम्।।
न च फलति विकर्मा जीवलोके न दैवं
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्।
गुरुमिव कृतमग्र्यं कर्म संयाति दैवं
नयति पुरुषकारः सञ्चितस्तत्रतत्र।।
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम।
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः।।
अभ्युत्थानेन दैवस्य समारब्धेन केनचित्।
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्।।
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि नवमोऽध्यायः।। 9 ।।