आदिपर्व

अध्यायः ७२

Adi Parva (Sanskrit) · Adhyaya 72
अक्षर का आकार

वैशंपायन उवाच।

कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ।।

सर्व एव समागम्य शतक्रतुमथाब्रुवन्।
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर।।

वैशंपायन उवाच।

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा।
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः।।

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे।
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्।।

ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा।
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः।।

तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा।
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः।।

ततस्तयोर्मिथस्तत्र विरोधः समजायत।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते।।

देवयान्युवाच।

कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि।
समुदाचारहीनाया न ते साधु भविष्यति।।

सर्मिष्ठोवाच।

आसीनं च शयानं च पिता ते पितरं मम।
स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्।।

याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः।।

आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि।।

लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्।
`प्रतिकूलं वदसि चेदितःप्रभृति याचकि।।'

वैशंपायन उवाच।

समुच्छ्रयं देवयानीं गतां सक्तां च वाससि।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत्।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया।।

अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा।
`प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता।'
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः।।

श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः।
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्।।

ददर्श राजा तां तत्र कन्यामग्निशिखामिव।
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्।।

सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना।
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला।।

दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा।
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते।।

दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे।

देवयान्युवाच।

योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया।।

तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते।
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः।।

समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः।
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्।।

तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि।

वैशंपायन उवाच।

तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः।।

गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्।
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः।।

`ययातिरुवाच।

गच्छ भद्रे यथाकामं न भयं विद्यते तव।
इत्युच्यमाना नृपतिं देवयानीदमुत्तरम्।।

उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे।
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि।।

इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः।
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम्।।

सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे।
तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि।।

देवयान्युवाच।

यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप।
त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि।।

वैशंपायन उवाच।

आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ।
गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता।।

क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता।
ततश्चिरायमाणायां दुहितर्यथ भार्गवः।।

संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः।
धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम्।।

इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता।
यत्रयत्र सशीभिः सा गता पदममार्गत।।

सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम्।
वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत्।।

एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम्।
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः'।।

देवयान्युवाच।

त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः।।

नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः।

वैशंपायन उवाच।

सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम्।।

दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना।
आचचक्षे महाप्राज्ञं देवयानीं वने हताम्।।

शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः।
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्।।

त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने।
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने।।

बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्।
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः।।

मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता।

देवयान्युवाच।

निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम।।

शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः।।
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः।।

एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्।।

स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः।
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः।।

इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः।
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः।।

यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया।।

`उक्ताप्येवं भृशं मां सा निगृह्य विजने वने।
कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत्।।'

शुक्र उवाच।

स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः।
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि।।

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम।।

`जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम्।
मृतः संजीवते जन्तुर्यया कमललोचने।।

कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः।
ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम्।।

तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि।
क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः'।।

यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि।
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा।।

अहं जलं विमुञ्चामि प्रजानां हितकाम्यया।
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते।।

वैशंपायन उवाच।

एवं विषादमापन्नां मन्युना संप्रपीडिताम्।
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि द्विसप्ततितमोऽध्यायः।। 72 ।।