आदिपर्व

अध्यायः ७१

Adi Parva (Sanskrit) · Adhyaya 71
अक्षर का आकार

वैशंपायन उवाच।

समावृतव्रतं तं तु विसृष्टं गुरुणा कचम्।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्।।

ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च।
भ्राजसे विद्यया चैव तपसा च दमेन च।।

ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः।
तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः।।

एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि।।

स समावृतविद्यो मां भक्तां भजितुमर्हसि।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्।।
कच उवाच।

पूज्यो मान्यश्च भगवान्यथा तव पिता मम।
तथा त्वमनवद्याङ्गि पूजनीयतरा मम।।

प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः।
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम।।

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव।
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि।।

देवयान्युवाच।

गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः।
तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम।।

असुरैर्हन्यमाने च कच त्वयि पुनःपुनः।
तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे।।

सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्।।

कच उवाच।

अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि।
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे।।

यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि।।

भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम।।

आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे।
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम।।

देवयान्युवाच।

यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः।
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति।।

कच उवाच।

गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः।
गुरुणा चाननुज्ञातः काममेवं शपस्व माम्।।

आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया।
शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः।।

तस्माद्भवत्या यः कामो न तथा स भविष्यति।
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति।।

फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति।।

वैशंपायन उवाच।

एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः।।

तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः।
बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन्।।

देवा ऊचुः।

यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम्।
न ते यशः प्रणशिता भागभाक्व भविष्यसि।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि एकसप्ततितमोऽध्यायः।। 71 ।।