आदिपर्व

अध्यायः ७३

Adi Parva (Sanskrit) · Adhyaya 73
अक्षर का आकार

शुक्र उवाच।

यः परेषां नरो नित्यमतिवादांस्तितिक्षते।
देवयानि विजानीहि तेन सर्वमिदं जितम्।।

यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते।।

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति।
देवयानि विजानीहि तेन सर्वमिदं जितम्।।

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।।

यः संधारयते मन्युं योऽतिवादांस्तितिक्षते।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्।।

यो यजेदपरिश्रान्तो मासिमासि शतं समाः।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः।।

`तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ।
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च।।

तस्मादक्रोधने यज्ञतपोदानफलं महत्।
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन।।

न यतिर्न तपस्वी च न यज्वा न च धर्मभाक्।
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च।।

पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्।।

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्।।

देवयान्युवाच।

वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम्।
अक्रोधे चातिवादे च वेद चापि बलाबलम्।।

`स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः।'
शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता।।

`प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः।'
तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते।।

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु।।

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते।।

`सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः।
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च।।

नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः।।

अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते।
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत्।।

सुकृते दुष्कृते वापि यत्र सज्जति यो नरः।
ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत्।।'

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः।
मम मथ्नाति हृदयमग्निकाम इवारणिम्।।

न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु।
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते।।

मरणं शोभनं तस्य इति विद्वज्जना विदुः।
`अवमानमवाप्नोति शनैर्नीचसमागमात्।।

अतिवादा वक्त्रतो निःसरन्ति
यैराहतः शोचति रात्र्यहानि।
परस्य वै मर्मसु ते पतन्ति
तस्माद्धीरो नैव मुच्येत्परेषु।।

निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना।
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम्।।

संरोहित शरैर्विद्धं नवं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्'।।

।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि त्रिसप्ततितमोऽध्यायः।। 73 ।।