आदिपर्व
अध्यायः ६०
सौतिरुवाच।
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्।
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा।।
जनयामास यं काली शक्तेः पुत्रात्पराशरात्।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्।।
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्।
वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः।।
यं नाति तपसा कश्चिन्न वेदाध्ययनेन च।
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना।।
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः।।
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्।
शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः।।
जनमेजयस्य राजर्षेः स महात्मा सदस्तथा।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः।।
तत्र राजानमासीनं ददर्श जनमेजयम्।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्।।
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे।।
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः।।
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः।।
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा।।
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत्।।
प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात्।
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा।।
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्।।
भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्।।
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः।।
जनमेजय उवाच।
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज।।
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्।।
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्।
कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम।
`इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि'।।
सौतिरुवाच।
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा।
शशास शिष्यमासीनं वैशंपायनमन्तिके।।
व्यास उवाच।
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि।।
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा।
आचचक्षे ततः सर्वमितिहासं पुरातनम्।।
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा।।
।। इति श्रीमन्महाभारते आदिपर्वणि
अंशावतरणपर्वणि षष्टितमोऽध्यायः।। 60 ।।