आदिपर्व
अध्यायः ५९
शौनक उवाच।
भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत्।
आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते।।
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन।
याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे।।
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम्।
कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे।।
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्।
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः।।
सौतिरुवाच।
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः।
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्।।
शौनक उवाच।
महाभारतमाख्यानं पाण्डवानां यशस्करम्।
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा।।
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः।
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्।।
मनःसागरसंभूतां महर्षेर्भावितात्मनः।
कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम्।।
सौतिरुवाच।
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्।
कृष्णद्वैपायनमतं महाभारतमादितः।।
शृणु सर्वमशेषेण कथ्यमानं मया द्विज।
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते।।
।। इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकोनषष्टितमोऽध्यायः।। 59 ।।