आदिपर्व

अध्यायः ४०

Adi Parva (Sanskrit) · Adhyaya 40
अक्षर का आकार

शौनक उवाच।

जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः।।

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि।।

सौतिरुवाच।

जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः।।

क्षपयामास तीव्रेण तपसेत्यत उच्यते।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा।।

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्।।

शौनक उवाच।

उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम्।
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्।
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः।।

सौतिरुवाच।

संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।।

अथ कालस्य महतः स मुनिः संशितव्रतः।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत।।

स तूर्ध्वरेतास्तपसि प्रसक्तः
स्वाध्यायवान्वीतभयः कृतात्मा।
चचार सर्वां पृथिवीं महात्मा
न चापि दारान्मनसाध्यकाङ्क्षत्।।

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः।।

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।
बभूव मृगयाशीलः पुरास्य प्रपितामहः।।

`तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः।'
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः।।

स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा।
पृष्ठतो धनुरादाय ससार गहने वने।।

यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः।।

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने।
पूर्वरूपं तु तत्तूर्णं तस्यासीत्स्वर्गतिं प्रति।।

परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः।
दूरं चापहृतस्तेन मृगेण स महीपतिः।।

परिश्रान्तः पिपासार्त आससाद मुनिं वने।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्।।

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्।।

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः।
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः।।

मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि।
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः।।

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत।।

न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम्।
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्।
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः।।

न हि तं राजशार्दूलं क्षमाशीलो महामुनिः।
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्।।

न हि तं राजशार्दूलस्तथा धर्मपरायणम्।
जानाति भरतश्रेष्ठस्तत एनमधर्षयत्।।

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः।
शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः।।

स देवं परमासीनं सर्वभूतहिते रतम्।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः।।

सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्।
सख्योक्तः क्रीडमानेन स तत्र हसता किल।।

संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः।
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्।
ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम।।

कृश उवाच।

तेजस्विनस्तव पिता तथैव च तपस्विनः।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव।।

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु।।

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा।।

पित्रा च तव तत्कर्म नानुरूपमिवात्मनः।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि चत्वारिंशोऽध्यायः।। 40 ।।