आदिपर्व
अध्यायः ३९
सौतिरुवाच।
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम।
सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन्।।
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत।
जरत्कारुं स्वसारं वै परं हर्षमवाप च।।
ततो नातिमहान्कालः समतीत इवाभवत्।
अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम्।।
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः।
समाप्यैव च तत्कर्म पितामहमुपागमन्।।
देवा वासुकिना सार्धं पितामहमथाव्रुवन्।
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्।।
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः।।
हितो ह्ययं सदास्मकं प्रियकारी च नागराट्।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम्।।
ब्रह्मोवाच।
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः।
एलापत्रेण नागेन यदस्याभिहितं पुरा।।
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः।।
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु।।
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा।।
सौतिरुवाच।
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः।।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्।।
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः।
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति।।
।। इति श्रीमनमहाभारते आदिपर्वणि
आस्तीकपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।