आदिपर्व

अध्यायः ४१

Adi Parva (Sanskrit) · Adhyaya 41
अक्षर का आकार

सौतिरुवाच।

एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना।।

स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन्।
अपृच्छत्तं कथं तातः `सर्वभूतहिते रतः।।

अनन्यचेताः सततं विष्णुं दवेमतोषयत्।
वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः।
एवंभूतः स तेजस्वी' स मेऽद्य मृतधारकः।।

कृश उवाच।

राज्ञा परिक्षिता तात मृगयां परिधावता।
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः।।

शृङ्ग्युवाच।

किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः।
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्।।

कृश उवाच।

स राजा मृगयां यातः परिक्षिदभिमन्युजः।
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्।।

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्।।

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः।
पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव।।

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत।
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत्।।

शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः।
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्।।

सौतिरुवाच।

श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम्।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना।।

आविष्टः स हि कोपेन शशाप नृपतिं तदा।
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः।।

शृङ्ग्युवाच।

योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह।
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी।।

तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः।।

सप्तरात्रादितो नेता यमस्य सदनं प्रति।
द्विजानामवमन्तारं कुरूणामयशस्करम्।।

सौतिरुवाच।

इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात्।
आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम्।।

स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै।
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः।।

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्।
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना।।

राज्ञा परिक्षिता कोपादशपं तमहं नृपम्।
यथार्हति स एवोग्रं शापं कुरुकुलाधमः।
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः।।

वैवस्वतस्य सदनं नेता परमदारुणम्।

सौतिरुवाच।

तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्।।

शमीक उवाच।

न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्।
वयं तस्य नरेन्द्रस्य विषये निवसामहे।।

न्यायतो रक्षितास्तेन तस्य पापं न रोचये।
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा।।

क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः।
यदि राजा न संरक्षेत्पीडा नः परमा भवेत्।।

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्।
रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः।।

चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः।
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि।।

परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः।
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो।।

अराजके जनपदे दोषा जायन्ति वै सदा।
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै।।

दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा।
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्।।

राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः।
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः।।

देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः।
ओषधिभ्यो मनुष्याणां धारयन्सततं हितम्।।

मनुष्याणां च यो धाता राजा राज्यकरः पुनः।
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्।।

तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना।
अजानता कृतं मन्ये व्रतमेतदिदं मम।।

कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्।
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि एकचत्वारिंशोऽध्यायः।। 41 ।।