आदिपर्व

अध्यायः ३८

Adi Parva (Sanskrit) · Adhyaya 38
अक्षर का आकार

सौतिरुवाच।

सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्।।

`प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः।
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो।।

अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता।
तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः।।'

न स यज्ञो न भविता न स राजा तथाविधः।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्।।

दैवेनोपहतो राजन्यो भवेदिह पूरुषः।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम्।।

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम।।

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः।
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो।।

`शापदुःखाग्नितप्तानां पन्नगानामनामयम्।
कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः।।'

देवा ऊचुः।

का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः।।

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह।
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता।।

ब्रह्मोवाच।

बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः।
प्रजानां हितकामोऽहं न च वारितवांस्तदा।।

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः।
तेषां विनाशो भविता न तु ये धर्मचारिणः।।

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्।
पन्नगानां निबोधध्वं तस्मिन्काले समागते।।

यायावरकुले धीमान्भविष्यति महानृषिः।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः।।

तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः।।

देवा ऊचुः।

स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्।।

ब्रह्मोवाच।

`वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना।
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः।।

तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम्।'
सनामायां सनामा स कन्यायां द्विजसत्तमः।।

एलापत्र उवाच।

एवमस्त्विति तं देवाः पितामहमथाब्रुवन्।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ।।

सोऽहमेवं प्रपश्यामि वासुके भगिनी तव।
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय।।

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि अष्टत्रिंशोऽध्यायः।। 38 ।।