आदिपर्व

अध्यायः २५९

Adi Parva (Sanskrit) · Adhyaya 259
अक्षर का आकार

वैशंपायन उवाच।

मन्दपालोऽञपि कौरव्यं चिन्तयामास पुत्रकान्।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति।।

स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्।
कथं नु शक्ताः शरणे लपिते मम पुत्रकाः।।

वर्धमाने हुतवहे वाते चाशु प्रवायति।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः।।

कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती।।

कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान्।
सन्तप्यमाना बहुधा वाशमाना प्रधावती।।

जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी।।

लालप्यमानं तमृषइं मन्दपालं तथा वने।
लपिता प्रत्युवाचेदं सासूयमिव भारत।।

न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम्।।

त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ।
श्रुतं तथा चेति ज्वलनेन महात्मना।।

पलो न तां वाचमुक्त्वा मिथ्या करिष्यति।
न्धुकृत्ये न तेन ते स्वस्थ मानसम्।।

तामेव तु ममामित्रां चिन्तयन्परितप्यसे।
ध्रुवं मयि न ते स्नेहो यथा तपयं पुराऽभवत्।।

नहि पक्षवता न्याय्यं निः हेन सुहृज्जने।
पीड्यमान उपद्रष्टुं शक्तेना मा कथंचन।।

गच्छ त्वं जरितामेव यदर्थं परितप्यसे।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता।।

मन्दपाल उवाच।

नाहमेवं चरे लोके यथा त्वमभिमन्यसे।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम।।

भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः।
अवमन्येत तं लोको यथेच्छसि तथा कुरु।।

एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान्।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम।।

वैशंपायन उवाच।

`भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत्।
सान्त्वयामास च पुनः पति पतिपरायणा।।'

तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी।।

सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान्।।

अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः।
`न श्रद्धेयं ततस्तेषांर्शनं वै पुनःपुनः।।

इति मत्वाऽब्रवीद्वाकजरिता पुत्रगृद्धिनी।'
एकाकशश्च पुत्रांस्तन्त्र्शमानान्वपद्यत।।

`जरिता तु परिष्वज्युत्रस्नेहाच्चुचुम्ब ह।।'

ततोऽभ्यगच्छत्सहसमन्दपालोऽपि भारत।
अथ ते सर्व एवैनं भ्यनन्दंस्तदा सुताः।।

`गुरुत्वान्मन्दपालस्तपसश्च विशेषतः।
अभिवादामहे सर्वे तपक्षाः प्रसादतः।।

एवमुक्तवतां तेषां तनन्द्य महातपाः।
परिष्वज्य ततो मू उपाघ्राय च बलकान्।
पुत्रान्स्वयं समाहूयतः प्रोवाच गौतमः।।'

लालप्यमानमेकैकंरितां च पुनःपुनः।
न चैवोचुस्तदा किंतमृषिं साध्वसाधु वा।।

मन्दपाल उवाच।

ज्येष्ठः सुतस्ते कत कतमस्तस्य चानुजः।
मध्यमः कतमश्चैव यान्कतमश्च ते।।

एवं ब्रुवन्तं दुःखाकं मा न प्रतिभाषसे।
कृतवानस्मि हव्यानैव शान्तिमितो लभे।
`एवमुक्त्वा तु तां मन्दपालस्तदाऽस्पृशत्।।'

जरितोवाच।

किं नु ज्येष्ठेन ते किमनन्तरजेन ते।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः।।

यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम्।।

मन्दपाल उवाच।

न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात्।
सापत्नकमृते लोके नान्यदर्थविनाशनम्।।

वैराग्निदीपनं चैव भृशुद्वेगकारि च।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता।।

अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्।।

सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम्।
अपध्यानेन सा तेन धूमारुणसमप्रभा।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति।।

अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते।।

न हि भार्येति विश्वासः कार्यः पुंसा कथंचन।
न हि कार्यमनुध्याति नारी पुत्रवती सती।।

वैशंपायन उवाच।

ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः।।

।। इति श्रीमन्महाभारते आदिप्रवणि
मयदर्शनपर्वणि
ऊनषष्ट्यधिकद्विशततमोऽध्यायः।। 259 ।।