आदिपर्व

अध्यायः २५८

Adi Parva (Sanskrit) · Adhyaya 258
अक्षर का आकार

जरितारिरुवाच।

पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः।
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्।।

यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते।
सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्।।

सारिसृक्व उवाच।

धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः।
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः।।

स्तम्बमित्र उवाच।

ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः।
ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति।।

द्रोण उवाच।

हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम्।
सप्तजिह्वाननः क्रूरो लिहानो विसर्पति।।

वैशंपायन उवाच।

एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः।
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव।।

जरितारिरुवाच।

आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम्।
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः।।

ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा।
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा।।

सारिसृक्क उवाच।

माता प्रणष्टा पितरं न विद्मः
पक्षा जाता नै नो धूमकेतो।
न नस्त्राता विद्यते वै त्वदन्य-
स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने।।

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः।
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः।।

त्वमेवैकस्तपसे जप्तवेदो
नान्यस्तप्ता विद्यते गोषु देव।
ऋषीनस्मान्बालकान्पालयस्व
परेणास्मान्प्रेहि वै हव्यवाह।।

स्तम्बमित्र उवाच।

सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च।।

त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः।
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च।।

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह
काले प्राप्ते पचसि पुनः समिद्धः।
त्वं सर्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा।।

द्रोण उवाच।

त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्।।

सूर्यो भूत्वा रश्मिभिर्जातवेदो
भूमेरम्भो भूमिजातान्रसांश्च।
विश्वानादाय पुनरुत्सृज्य काले
दृष्ट्वा वृष्ट्या भावयसीह शुक्र।।

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः।।

इदं वै सद्म तिग्मांशो वरुणस्य परायणम्।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय।।

पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन।
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव।।

वैशंपायन उवाच।

एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया।।

अग्निरुवाच।

ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं
ईप्सितं ते करिष्यामि न च ते

मन्दपालेन वै यूयं मम पूर्वं निवेदिताः।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह।।

तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम्।
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते।
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम।।

द्रोण उवाच।

इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः।
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्।।

वैशंपायन उवाच।

तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान्।
ददाह खाण्डवं दावं समिद्धो जनमेजय।।

।। इति श्रीमन्महाभारते आदिपर्वणि
मयदर्शनपर्वणि
अष्टपञ्चाशदधिकद्विशततमोऽध्यायः।। 258 ।।