आदिपर्व

अध्यायः २६०

Adi Parva (Sanskrit) · Adhyaya 260
अक्षर का आकार

मन्दपाल उवाच।

युष्माकमपवर्गार्थं ती ज्वलनो मया।
अग्निना च तथेत्येतिज्ञातं महात्मना।।

अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः।
भवतां च परं वीर्यं नाहमिहागतः।।

न सन्तापो हि वर्त्थः पुत्रका हृदि मां प्रति।
ऋषीन्वेद हुताशो ब्रह्म तद्विदितं च वः।।

वैशंपायन उवाच।

एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः।
मन्दपालस्ततो देशादन्यं देशं जगाम ह।।

भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्।।

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः।
जगाम दर्शयामास चार्जुनम्।।

ततोऽञन्तरिक्षाद्भगवानवतीर्य पुरन्दरः।
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्।।

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह।।

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः।।

यदा प्रसन्नो भगवान्महादेवो भविष्यति।
तदातुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः।।

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन।
तपसा महता चापि दास्यामि भवतोऽप्यहम्।।

आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय।।

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते।।

एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः।
हुताशनमनुज्ञाप्य जगामत्रिदिवं प्रभुः।।

पावकश्च तदा दावं दग्ध्वसमृगपक्षिणम्।
अहोभिरेकविंशद्भिर्विरराग्सुतर्पितः।।

जग्ध्वा मांसानि पीत्वा चदांसि रुधिराणि च।
युक्तः परमया प्रीत्या तावुत्वाच्युतार्जुनौ।।

युवाभ्यां पुरुषाग्र्याभ्यां ततोऽस्मि यथासुखम्।
अनुजानामि वां वीरौ चरतंत्र वाञ्छितम्।।

`गाण्डिवं च धनुर्दिव्यमक्षौ च महेषुधी।
कपिध्वजो रथश्चायं तव द महामते।।

अनेन धनुषा चैव रथेनाने भारत।
विजेष्यसि रणे शत्रून्सदेवामानुषान्।।'

एवं तौ समनुज्ञातौ पाववेमहात्मना।
अर्जुनो वासुदेवश्च दानवश्चयस्तथा।।

परिक्रम्य ततः सर्वे त्रयोऽभरतर्षभ।
रमणीये नदीकूले सहितामुपाविशंन्।।

।। इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां
वैयासिक्यां आदिपर्वणि मयपर्वणि
षष्ट्यधिकद्विशततमोऽध्यायः।। 260 ।।

।। समाप्तं मयदर्शनपर्वादिपर्व च।।