आदिपर्व
अध्यायः २५७
जरितोवाच।
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम्।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः।।
शार्ङ्गका ऊचुः।
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः।।
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः।।
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्।।
जरितोवाच।
अहं वेगेन तं यान्तमद्राक्षं पततां वरम्।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम्।।
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्।।
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः।।
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्।।
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना।।
शार्ङ्गका ऊचुः।
न विद्महे हृतं मातः श्येनैनाखुं कथंचन।
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः।।
जरितोवाच।
अहं तमभिजानामि हृतं श्येनेन मूषिकम्।
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम।।
शार्ङ्गका ऊचुः।
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्।।
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव।।
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे।
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान्।।
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान्।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः।।
वैशंपायन उवाच।
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे।
जगाम त्वरिता देशं क्षेममग्नेरनामयम्।।
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः।
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः।।
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः।
`व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात्।'
जरितारिस्ततो वाक्यं श्रावयामास पावकम्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
मयदर्शनपर्वणि
सप्तपञ्चाशदधिकद्विशततमोऽध्यायः।। 257 ।।