आदिपर्व

अध्यायः २५६

Adi Parva (Sanskrit) · Adhyaya 256
अक्षर का आकार

वैशंपायन उवाच।

ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्।।

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी।
जरिता शोकदुःखार्ता विललाप सुदुःखिता।।

जरितोवाच।

अयमग्निर्दहन्कक्षमित आयाति भीषणः।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः।।

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः।।

त्रासयंश्चायमायाति लेलिहानो महीरुहान्।
अजातपक्षाश्च सुता न शक्ताः सरणे मम।।

आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे।।

कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्।
किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्।।

चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह।।

जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम्।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः।।

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा।।

कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा।
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्।।

वैशंपायन उवाच।

एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम्।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्।।

अस्मास्विह विनष्टेषु भवितारः सुतास्तव।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः।।

अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव।।

मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः।।

जरितोवाच।

इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्।।

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः।।

तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम्।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात्।।

शार्ङ्गका ऊचुः।

अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः।।

कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत्।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः।।

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्।।

गर्हितं मरणं नः स्यादाखुना भक्षिते बिले।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्।।

`अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः।।'

।। इति श्रीमन्महाभारते आदिपर्वणि
मयदर्शनपर्वणि
षट्पञ्चाशदधिकद्विशततमोऽध्यायः।। 256 ।।