आदिपर्व

अध्यायः २५५

Adi Parva (Sanskrit) · Adhyaya 255
अक्षर का आकार

जनमेजय उवाच।

किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे।।

अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च।
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम्।।

तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम्।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः।।

वैशंपायन उवाच।

यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते।
तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम।।

धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः।।

स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम्।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः।।

स गत्वा तपसः पारं देहमुत्सृज्य भारत।
जगाम पितृलोकाय न लेभे तत्र तत्फलम्।।

स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः।।

मन्दपाल उवाच।

किमर्थमावृता लोका ममैते तपसाऽर्जिताः।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम्।।

तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्।
फलमेतस्य तपसः कथयध्वं दिवौकसः।।

देवा ऊचुः।

ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः।।

तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा।।

त इमे प्रसवस्यार्थे तव लोकाः समावृताः।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान्।।

पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम।।

वैशंपायन उवाच।

तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम्।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्।।

स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान्।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्।।

तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः।
तानपास्य स तत्रैव जगाम लपितां प्रति।।

बालान्स तानण्डगतान्सह मात्रा मुनिर्वने।
तस्मिन्गते महाभागे लपितां प्रति भारत।।

अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत्।
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने।।

न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान्।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा।।

ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह।।

तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान्।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम्।।

पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम्।

मन्दपाल उवाच।

त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्।।

त्वमन्तः सर्वभूतानां गूढश्चरसि पावक।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः।।

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः।।

त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्।।

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्।
त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः।।

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते।।

तवैव कर्मविहितं भूतं सर्वं चराचरम्।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्।।

त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः।।

त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः।

वैशंपायन उवाच।

एवं स्तुतस्तदा तेन मन्दपालेन पावकः।।

तुतोष तस्य नृपते मुनेरमिततेजसः।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते।।

तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम्।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय।।

तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया।।

।। इति श्रीमन्महाभारते आदिपर्वणि
मयदर्शनपर्वणि
पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः।। 255 ।।