आदिपर्व

अध्यायः २२८

Adi Parva (Sanskrit) · Adhyaya 228
अक्षर का आकार

जनमेजय उवाच।

एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः।।

सर्व एव महात्मानः सर्वे मम पितामहाः।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत।।

कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः।
वर्तमाना महाभागा नाभिद्यन्त परस्परम्।।

श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम्।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह।।

वैशंपायन उवाच।

धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत्।
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः।।

प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह।।

जितारयो महात्मानः सत्यधर्मपरायणाः।
एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः।।

कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च।।

तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु।
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः।।

`पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च।
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः।।

नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम्।
भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम्।।

अवेक्षमाणो द्युतिमानाजगाम महातपाः।
सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः।।

परेण तपसा युक्तो ब्राह्मेण तपसा वृतः।
नये नीतौ च निस्तो विश्रुतश्च महामुनिः।।

परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान्।
भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्दिवजः।।

धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः।
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च।।

सर्वथा कृतमर्यादो वेदेषु विविधेषु च।
शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित्।।

ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः।
ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः।।

श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा।
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे।।

महेन्द्रदत्ते महती बिभ्रत्परमवाससी।
जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे।।

अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे।
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम्।।

प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम्।
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः।।

संहितायां च सर्वेषां स्थितस्योपस्थितस्य च।
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः।।

गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम्।
आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा।।

यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः।
विदितार्थः समश्चैव च्छेत्ता निगमसंशयान्।।

अर्थनिर्वचने नित्यं संशयच्छिदसंशयः।
प्रकृत्या धर्मकुशलो दाता धर्मविशारदः।।

लोपेनागमधर्मेण संक्रमेण च वृत्तिषु।
एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान्।।

पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता।
प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च।।

सर्ववर्णविकारेषु नित्यं कुशलपूजितः।
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च।।

समस्थानेषु सर्वेषु समाम्नायेषु धातुषु।
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन्।।

अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन्।
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन्।।

चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम्।
विभाषितं च समयं भाषितं हृदयंगमम्।।

आत्मने च परस्मै च स्वरसंस्कारयोगवित्।
एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट्।।

विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा।
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान्।।

अभेदतश्च बहुशो बहुशश्चापि भेदतः।
वक्ता विविधवाक्यानां नानादेशसमीक्षिता।।

पञ्चागमांश्च विविधानादेशांश्च समीक्षिता।
नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः।।

परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः।
प्रत्ययं च समाख्याता नियतं प्रतिधातुकम्।।

पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च।
तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च।।'

आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः।
`कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः।।'

देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि।
प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत्।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा।।

आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः।।

प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता।।

जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी।।

कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः।।

आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्।।

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः।।

पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां।।

सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ।।

एकराज्यावेकगृहावेकशय्यासनाशनौ।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः।।

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर।।

युधिष्ठिर उवाच।

सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने।
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्।।

अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्।।

एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे।।

।। इति श्रीमन्महाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
अष्टाविंशत्यधिकद्विशततमोऽध्यायः।। 228 ।।