आदिपर्व

अध्यायः २२७

Adi Parva (Sanskrit) · Adhyaya 227
अक्षर का आकार

`वैशंपायन उवाच।

दुर्योधनस्य महिषी काशिराजसुता तदा।
धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा।।

पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम्।
पूजयामास पूजार्हां शचीदेवीमिवागताम्।।

ववन्दे तत्र गान्धारीं कृष्णया सह माधवी।
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे।।

परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम्।
पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत।।

संचिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा।
कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम्।।

पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते।
करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ।।

यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः।
तथेत्येव तदा क्षत्ता कारयामास तत्तथा।।

पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा।
नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान्।।

भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा।
शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम्।।

एवं विहरतां तेषां पाण्डवानां महात्मनाम्।
नेता सर्वस्य कार्यस्य विदुरो राजशासनात्।।'

विश्रान्तास्ते महात्मानः कंचित्कालं सकेशवाः।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च।।

धृतराष्ट्र उवाच।

भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम।
`पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत्।।

शासनान्मम कौन्तेय मम भ्राता महाबलः।
कृतवान्दुष्करं कर्म नित्यमेव विशांपते।।

तस्मात्त्वमपि कौन्तेय शासनं कुरु मा चिरम्।
मम पुत्रा दुरात्मानः सर्वेऽहंकारसंयुताः।।

शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर।
स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः।।'

पुनर्वै विग्रहो मा भूत्खाण्डवप्रस्थमाविश।
न हि वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्।।

संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा।
अर्धराज्यं तु संप्राप्य खाण्डवप्रस्थणाविश।।

`केशवो यदि मन्यते तत्कर्तव्यमसंशयम्।।'

वैशंपायन उवाच।

प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च।
`वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन्।।

धृतराष्ट्र उवाच।

अभिषेकस्य संभारान्क्षत्तरानय मा चिरम्।
अभिषिक्तं करिष्यामि ह्यद्य वै कुरुनन्दनम्।।

ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वतः।
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः।।

पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम्।
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः।।

अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय।
मुक्तावलीश्च हारं च निष्काणि कटकानि च।।

कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम्।
अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः।।

जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः।
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम्।।

औपवाह्योपरिगतं दिव्यचारमरवीजितम्।
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम्।।

जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा।
दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम्।।

प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः।
पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च।।

प्रतिक्रिया कृतमिदं भविष्यति न संशयः।
भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन्।।

श्रीवासुदेव उवाच।

युक्तमेतन्महाभाग कौरवाणां यशस्करम्।
शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि।।

इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा।
तथोक्तं धृतराष्ट्रेण कारयामास केशवः।।

तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा।
आगत्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः।।

मूर्धाभिषिक्तैः सहितो ब्राह्मणैर्वेदपारगैः।
कारयामास विधिवत्केशवानुमते तदा।।

कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ।
बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः।।

अभिषेकं तदा चक्रुर्भद्रपीठे सुसंस्कृतम्।।

व्यास उवाच।

जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नृपान्भवान्।
राजसूयादिभिर्यज्ञैः क्रतुभिर्वरदक्षिणैः।।

स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैः सह।
एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन्।।

मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः।
जयेति संस्तुतो राजा प्रददौ धनमक्षयम्।।

सर्वमूर्धाभिषिक्तैश्च पूजितः कुरनन्दनः।
औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः।।

रराज राजाभिमतो महेन्द्र इव दैवतैः।
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम्।।

प्रविवेश तदा राजा नागरैः पूजितो गृहम्।
मूर्धाभिषिक्तं कौन्तेयमभ्यगच्छन्त कौरवाः।।

गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः।
ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं।।

समक्षं वासुदेवस्य कुरूणां च समक्षतः।
अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः।।

गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव।
आयुः पुरूरवा राजन्नहुषेण ययातिना।।

तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम।
राजधानी तु सर्वेषां पौरवाणां महाभुज।।

विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै।
तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम्।।

पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम्।
तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ।।

वैशंपायन उवाच।

प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च।
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः।।

प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः।
तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे।।

गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात्।
पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान्।।

घोषयामास नगरे धार्तराष्ट्रः ससौबलः।'
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः।।

मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिव च्युतम्।
`वासुदेवो जगन्नाथश्चिन्तयामास वासवम्।।

महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत्।
विश्वकर्मन्महाप्राज्ञ अद्यप्रभृति तत्पुरम्।।

इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति।
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम्।।

प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत।
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान्।।

कुरुष्व कुरुराजस्य महेन्द्रपुरसन्निभम्।
इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम्।।

वैशंपायन उवाच।'

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः।
स्वस्तिवाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति।।

तत्पुरं मापयामासुर्द्वैपायनपुरोगमाः।
`ततः स विश्वकर्मा तु चकार पुरमुत्तमम्।।'

सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम्।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता।।

पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा।।

द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम्।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः।।

विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः।।

तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्।
थीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्।।

आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्।
सुविभक्तमहारथ्यं देवताबाधवर्जितम्।।

विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः।
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत।।

मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्।
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्।।

शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्।
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः।।

निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा।
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः।।

सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा।
उद्यानानि च रम्याणि नगरस्य समन्ततः।।

आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा।
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा।।

शालतालतमालैश्च बकुलैश्च सकेतकैः।
मनोहरैः सुपुष्पैश्च फलभारावनामितैः।।

प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः।
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः।।

करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः।
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः।।

मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः।
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः।।

मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा।।

सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः।।

रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः।
तडागानि च रम्याणि बृहन्ति सुबहूनि च।।

`नदी च नन्दिनी नाम सा पुरीमुपगूहति।
चातुर्वर्ण्यसमाकीर्णमन्यैः शिल्पिभिरावृतम्।।

सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा।
उपभोगसमृद्धैश्च सर्वद्रव्यसमावृतम्।।

नित्यमार्यजनोपेतं नरनारीगणैर्युतम्।
वाजिवारणसंपूर्णं गोभिरुष्ट्रैः खरैरजैः।।

तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत।
पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा।।

पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः।
कृतमङ्गलसत्कारैर्ब्राह्मणैर्वेदपारगैः।।

द्वैपायनं पुरस्कृत्य धौम्यस्याभिमते स्थितः।
भ्रातृभिः सहितो राजा राजमार्गमतीत्य च।।

औपवाह्यगतो राजा केशवेन सहाभिभूः।
तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम्।।

वर्धमानपुरद्वारात्प्रविवेश महाद्युतिः।
शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम्।।

जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः।
संस्तूयमानो मुनिभिः सूतमागधबन्दिभिः।।

औपवाह्यगतो राजा राजमार्गमतीत्य च।
कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम्।।

प्रविश्य भवनं राजा नागरैरभिसंवृतः।
प्रहृष्टमुदितैरासीत्सत्कारैरभिपूजितः।।

पूजयामास विप्रेन्द्रान्केशेन महात्मना।
ततस्तु राष्ट्रं नगरं नरनारीगणायुतम्।।

गोधनैश्च समाकीर्णं सस्यैर्वृद्धिं तदागमत्।।'

तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत्।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत।।

`सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च।'
तथा भीष्मेण राज्ञा च धर्मप्रणयिना सदा।।

पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः।
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम्।।

शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा।
`ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च।।

द्वैपायनं च संपूज्य विसृज्य च नराधिपः।
वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम्।।

तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ।
प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम्।।

तवैव तु प्रसादेन राज्यस्थाश्च भवामहे।
गतिस्त्वमापत्कालेऽपि पाण्डवानां च माधव।।

ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान्हि नः।
यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ।।

श्रीवासुदेव उवाच।

त्वत्प्रभावान्महाराज्यं संप्राप्तं हि स्वधर्मतः।
पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो।।

धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान्।
यथेष्टं पालय जगच्छश्वद्धर्मधुरं वह।।

पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव।
अद्यैव नारदः श्रीमानागमिष्यति सत्वरः।।

आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै।
एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः।।

उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते।

कुन्त्युवाच।

जातुषं गृहमासाद्य मया प्राप्तं यदानघ।।

आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव।
त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम्।।

त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः।
सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम।।

स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः।।

वैशंपायन उवाच।

करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम्।
गमनाय मतिं चक्रे वासुदेवः सहानुगः।।'

तान्निवेश्य ततो वीरः सह रामेण कौरवान्।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा।।

।। इति श्रीमन्महाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
सप्तविंशत्यधिकद्विशततमोऽध्यायः।। 227 ।।