आदिपर्व

अध्यायः २१०

Adi Parva (Sanskrit) · Adhyaya 210
अक्षर का आकार

वैशंपायन उवाच।

तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः।।

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत।।

वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान्।
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्।।

कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान्।।

अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत्।
अपि नो भागधेयानि शुभानि स्युः परन्तप।।

इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु।।

श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः।।

युधिष्ठिर उवाच।

मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्।।

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ।।

आभ्यां तव सुता राजन्निर्जिता राजसंसदि।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता।।

व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता।।

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते।
भवान्हि गुरुरस्माकं परमं च परायणम्।।

वैशंपायन उवाच।

ततः स द्रुपदो राजा हर्षव्याकुललोचनः।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम्।।

यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्।।

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात्।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः।।

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम्।।

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः।।

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्।।

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्।।

गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्।।

वैशंपायन उवाच।

तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः।
`ममापि दारसंबन्धः कार्यस्तावद्विशांपते।।

तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम्।'

द्रुपद उवाच।

भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश।।

युधिष्ठिर उवाच।

सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते।।

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः।
पार्थेन विजिता चैषा रत्नभूता सुता तव।।

एष नः समयो राजँल्लब्धस्य सह भोजनम्।
न च तं हातुमिच्छामः समयं राजसत्तम।।

`अक्रमेण निवेशे च धर्मलोपो महान्भवेत्।'
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान्।।

द्रुपद उवाच।

एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्।।

`सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते।'
लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी।।

युधिष्ठिर उवाच।

सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे।।

न मे वागनृतं प्राह नाधर्मे धीयते मतिः।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम्।।

`आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम्।'
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव।।

द्रुपद उवाच।

त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः।
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे।।

वैशंपायन उवाच।

ते समेत्य ततः सर्वे कथयन्ति स्म भारत।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया।।

।। इति श्रीमन्महाभारते आदिपर्वणि
वैवाहिकपर्वणि
दशाधिकद्विशततमोऽध्यायः।। 210 ।।