आदिपर्व

अध्यायः २०९

Adi Parva (Sanskrit) · Adhyaya 209
अक्षर का आकार

दूत उवाच।

जन्यार्थमन्नं द्रुपदेन राज्ञा
विवाहहेतोरुपसंस्कृतं च।
तदाप्नुवध्वं कृतसर्वकार्याः
कृष्णा च तत्रैतु चिरं न कार्यम्।।

इमे रथाः काञ्चनपद्मचित्राः
सदश्वयुक्ता वसुधाधिपार्हाः।
एतान्समारुह्य परैत सर्वे
पाञ्चालराजस्य निवेशनं तत्।।

वैशंपायन उवाच।

ततः प्रयाताः कुरुपुंगवास्ते
पुरोहितं तं परियाप्य सर्वे।
आस्थाय यानानि महान्ति तानि
कुन्ती च कृष्णा च सहैकयाने।।

`स्त्रीभिः सुगन्धाम्बरमाल्यदानै-
र्विभूषिता आभरणैर्विचित्रैः।
माङ्गल्यगीतध्वनिवाद्यघोषै-
र्मनोहरैः पुण्यकृतां वरिष्ठैः।।

संगीयमानाः प्रययुः प्रहृष्टा
दीपैर्ज्वलद्भिः सहिताश्च विप्रैः।।

स वै तथोक्तस्तु युधिष्ठिरेण
पाञ्चालराजस्य पुरोहितोऽग्र्यः।
सर्वं यथोक्तं कुरुनन्दनेन
निवेदयामास नृपाय गत्वा।।'

श्रुत्वा तु वाक्यानि पुरोहितस्य
यान्युक्तवान्भारत धर्मराजः।
जिज्ञासयैवाथ कुरूत्तमानां
द्रव्याण्यनेकान्युपसंजहार।।

फलानि माल्यानि च संस्कृतानि
वर्माणि चर्माणि तथाऽऽसनानि।
गाश्चैव राजन्नथ चैव रज्जू-
र्बीजानि चान्यानि कृषीनिमित्तम्।।

अन्येषु शिल्पेषु च यान्यपि स्युः
सर्वाणि कृत्यान्यखिलेन तत्र।
क्रीडानिमित्तान्यपि यानि तत्र
सर्वाणि तत्रोपजहार राजा।।

वर्माणि चर्माणि च भानुमन्ति
खड्गा महान्तोऽश्वरथाश्च चित्राः।
धनूंषि चाग्र्याणि शराश्च चित्राः
शक्त्यृष्टयः काञ्चनभूषणाश्च।।

प्रासा भुशुण्ड्यश्च परश्वधाश्च
सांग्रामिकं चैव तथैव सर्वम्।
शय्यासनान्युत्तमवस्तुवन्ति
तथैव वासो विविधं च तत्र।।

कुन्ती तु कृष्णां परिगृह्य साध्वी-
मन्तःपुरं द्रुपदस्याविवेश।
स्त्रियश्च तां कौरवराजपत्नीं
प्रत्यर्चयामासुरदीनसत्वाः।।

तान्सिंहविक्रान्तगतीन्निरीक्ष्य
महर्षभाक्षानजिनोत्तरीयान्।
गूढोत्तरांसान्भुजगेन्द्रभोग-
प्रलम्बबाहून्पुरुषप्रवीरान्।।

राजा च राज्ञः सचिवाश्च सर्वे
पुत्राश्च राज्ञः सुहृदस्तथैव।
प्रेष्याश्च सर्वे निखिलेन राज-
न्हर्षं समापेतुरतीव तत्र।।

ते तत्र वीराः परमासनेषु
सपादपीठेष्वविशङ्कमानाः।
यथानुपूर्व्याद्विविशुर्नराग्र्या-
स्तथा महार्हेषु न विस्मयन्तः।।

उच्चावचं पार्थिवभोजनीयं
पात्रीषु जाम्बूनदराजतीषु।
दासाश्च दास्यश्च सुमृष्टवेषाः
संभोजकाश्चाप्युपजह्रुरन्नम्।।

ते तत्र भुक्त्वा पुरुषप्रवीरा
यथात्मकामं सुभृशं प्रतीताः।
उत्क्रम्य सर्वाणि वसूनि राज-
न्सांग्रामिकं ते विविशुर्नृवीराः।।

तल्लक्षयित्वा द्रुपदस्य पुत्रा
राजा च सर्वैः सह मन्त्रिमुख्यैः।
समर्थयामासुरुपेत्य हृष्टाः
कुन्तीसुतान्पार्थिवराजपुत्रान्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
वैवाहिकपर्वणि
नवाधिकद्विशततमोऽध्यायः।। 209 ।।