आदिपर्व

अध्यायः १८१

Adi Parva (Sanskrit) · Adhyaya 181
अक्षर का आकार

ब्राह्मण उवाच।

अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्।।

पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः।
`द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा।'
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत्।।

जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया।।

प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च।
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत।।

प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत।
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्।।

ब्राह्मणावसथं पुम्यमाससाद महीपतिः।
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः।।

अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ।।

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ।।

स तावामन्त्रयामास सर्वकामैरतन्द्रितः।
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे।।

प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम्।
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः।।

अर्चयित्वा यथान्यायमुपयाजमुवाच सः।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे।।

`अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी।'
उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं।।

यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्।
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः।।

इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः।।

ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः।
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा।।

ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने।
अपरिज्ञातशौचायां भूमौ निपतितं फलम्।।

तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्।
विमर्शं संकरादाने नायं कुर्यात्कदाचन।।

दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्।।

संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः।
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा।।

कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः।
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा।।

तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्।।

उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्।
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह।।

अयुतानि ददान्यष्टौ गवां याजय मां विभो।
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि।।

स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः।
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे।।

क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः।
कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः।।

द्रोणस्य शरजालानि प्राणिदेहहराणि च।
षडरत्नि धनुश्चास्य दृश्यते परमं महत्।।

स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम्।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः।।

क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः।
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि।।

ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः।
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः।।

ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते।
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्।।

द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्।।

तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम्।
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्।।

गुर्वर्थ इति चाकाममुपयाजमचोदयत्।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः।।

ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै।।

स च पुत्रो महावीर्यो महातेजा महाबलः।
इष्यते यद्विधो राजन्भविता ते तथाविधः।।

भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः।
आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये।।

याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्।।

राज्ञ्युवाच।

अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च।
सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये।।

याज उवाच।

याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्।
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा।।

ब्राह्मण उवाच।

एवमुक्त्वा तु याजेन हुते हविषि संस्कृते।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः।।

ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्।
बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः।।

सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा।
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति।।

हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा।
भयापहो राजपुत्रः पञ्चालानां यशस्करः।।

राज्ञः शोकापहो जात एष द्रोणवधाय वै।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा।।

कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता।
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना।।

श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा।।

मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति।।

या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।
देवदानवयक्षाणामीप्सितां देवरूपिणीम्।।

`सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत।
ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः।।'

तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी।
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम्।।

सुरकार्यमियं काले करिष्यति सुमध्यमा।
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्।।

तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत्।
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा।।

`पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत्।
परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन्।
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः।।'

तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी।
न वै मदन्यां जननीं जानीयातामिमाविति।।

तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया।
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः।।

धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति।।

कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा।ञभूत्सा हि वर्णतः।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे।।

`वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम्।।'

धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्।।

अमोक्षणीयं दैवं हि भावि मत्वा महामतिः।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वमि एकाशीत्यधिकशततमोऽध्यायः।। 181 ।।