आदिपर्व

अध्यायः १८०

Adi Parva (Sanskrit) · Adhyaya 180
अक्षर का आकार

ब्राह्मण उवाच।

गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः।
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः।।

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्।
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः।।

तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा।
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा।।

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः।
चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे।।

ततः समभवद्द्रोणः कुमारस्तस्य धीमतः।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः।।

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः।।

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः।।

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्।
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः।।

वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्।
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम।।

राम उवाच।

शरीरमात्रमेवाद्य मया समवशेषितम्।
अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु।।

द्रोण उवाच।

अस्त्राणि चैव सर्वाणि तेषां संहारमेव च।
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्।।

ब्राह्मण उवाच।

तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः।
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा।।

संप्रहृष्टमना द्रोणो रामात्परमसम्मतम्।
ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत्।।

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्।
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति।।

द्रुपद उवाच।

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते।।

ब्राह्मण उवाच।

स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्।
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्।।

तस्मै पौत्रान्समादाय वसूनि विविधानि च।
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते।।

द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत्।
समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै।।

आचार्यवेतनं किंचिद्धृदि यद्वर्तते मम।
कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः।
सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा।।

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः।
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः।।

पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः।
तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम्।।

`धार्तराष्ट्राश्च ते भीताः पाञ्चालान्पाण्डवादयः।
धार्तराष्ट्रैश्च सहिताः पुनर्द्रोणेन चोदिताः।।

यज्ञसेनेन संगम्य कर्णदुर्योधनादयः।
निर्जिताः संन्यवर्तन्त तथा ते क्षत्रियर्षभाः।।'

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि।
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा।।

`महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम्।
महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा।।

तद्दृष्ट्वा तु महावीर्यं फल्गुनस्य महौजसः।
व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः।

द्रोण उवाच।

प्रार्थयामि त्वया सख्यं पुनरेव नराधिप।
अराजा किल नो राज्ञः सखा भवितुमर्हति।।

अतः प्रयतितं राज्ये यज्ञसेन त्वया सह।
राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे।।

ब्राह्मण उवाच।

एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता।
उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम्।।

एवं भवतु भद्रं ते भारद्वाज महामते।
सख्यं तदेव भवतु शश्वद्यदभिमन्यसे।।

एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्।
जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ।।

असत्कारः स तु महान्मुहूर्तमपि तस्य तु।
नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि अशीत्यधिकशततमोऽध्यायः।। 180 ।।