आदिपर्व
अध्यायः १८२
`ब्राह्मण उवाच।
श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः संशितव्रताः।
पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन्।।
धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम्।
पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम्।।
दुर्योधनेन प्रहितः पुरोचन इति श्रुतः।
वारणावतमासाद्य कृत्वा जतुगृहं महत्।।
तस्मिन्गृहे सुविस्रब्धान्पाण्डवान्पृथया सह।
अर्धरात्रे महाराज दग्धवानतिदुर्मतिः।।
तेनाग्निना स्वयं चापि दग्धः क्षुद्रो नृशंसवत्।
एतच्छ्रुत्वा सुसंहृष्टो धृतराष्ट्रः सबान्धवः।।
अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा।
पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम्।।
अहो विधिवशादेव गतास्ते यमसादनम्।
इत्युक्त्वा प्रारदत्तत्र धृतराष्ट्रः सबान्धवः।।
श्रुत्वा भीष्मेण विदुरः कृतवानौर्ध्वदेहिकम्।
पाण्डवानां विनाशाय कृतं कर्म दुरात्मना।।
एतत्कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा।
एतद्वृत्तं महाभाग पाण्डवान्प्रति नः श्रुतम्।।
ब्राह्मण उवाच।
श्रुत्वा तु वचनं तेषां यज्ञसेनो महामतिः।
यथा तज्जनकः शोचेदौरसस्य विनाशे।।
तथाऽतप्यत वै राजा पाण्डवानां विनाशने।
समाहूय प्रकृतयः सहिताः सर्वनागरैः।।
कारुण्यादेव पाञ्चालः प्रोवाचेदं वचस्तदा।
द्रुपद उवाच।
अहो रूपमहो धैर्यमहो वीर्यमहो बलम्।।
चिन्तयामि दिवारात्रमर्जुनं प्रति बान्धवाः।
भ्रातृभिः सहितो मात्रा सोऽदह्यत हुताशने।।
किमाश्चर्यमितो लोके कालो हि दुरतिक्रमः।
मिथ्याप्रतिज्ञो लोकेषु किं करिष्यामि सांप्रतं।।
अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम्।
याजोपयाजौ सत्कृत्य याचितौ तौ मयाऽनघौ।।
भारद्वाजस्य हन्तारं देवीं चाप्यर्जुनस्य वै।
लोकस्तद्वेद यच्चापि तथा याजेन मे श्रुतम्।।
याजेन पुत्रकामीयं हुत्वा चोत्पादिताविमौ।
धृष्टद्युम्नश्च कृष्णा च मम तुष्टिकरावुभौ।।
किं करिष्यामि ते नष्टाः पाण्डवाः पृथया सह।
ब्राह्मण उवाच।
इत्येवमुक्त्वा पाञ्चालः शुशोच परमातुरः।।
दृष्ट्वा शोचन्तमत्यर्थं पाञ्चालमिदमब्रवीत्।
पुरोधाः सत्वसंपन्नः सम्यग्विद्याविशेषवित्।।
वृद्धानुशासने सक्ताः पाण्डवा धर्मचारिणः।
तादृशा न विनश्यन्ति नैव यान्ति पराभवम्।।
मया दृष्टमिदं सत्यं शृणु त्वं मनुजाधिप।
ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम्।।
बृहस्पतिमतेनाथ पौलोम्या च पुरा श्रुतम्।
नष्ट हन्द्रो बिसग्रन्थ्यामुपश्रुत्या हि दर्शितः।।
उपश्रुतिर्महाराज पाण्डवार्थे मया श्रुता।
यत्रकुत्रापि जीवन्ति पाण्डवास्ते न संशयः।।
मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः।
यन्निमित्तमिहायान्ति तच्छृणुष्व नराधिप।।
स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः।
स्वयंवरस्तु नगरे घुष्यतां राजसत्तम।।
यत्र वा निवसन्तस्ते पाण्डवाः पृथया सह।
दूरस्था वा समीपस्था स्वर्गस्था वाऽपि पाण्डवाः।।
श्रुत्वा स्वयंवरं राजन्समेष्यन्ति न संशयः।
तस्मात्स्वयंवरो राजन्घुष्यतां मा चिरं कृथाः।।
ब्राह्मण उवाच।
श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा।
घोषयामास नगरे द्रौपद्यास्तु स्वयंवरम्।।
पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ।
दिवसैः पञ्चसप्तत्या भविष्यति न संशयः।।
देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः।
स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः।।
तव पुत्रा महात्मानो दर्शनीयो विशेषतः।
यदृच्छया सा पाञ्चाली गच्छेद्वान्यतमं पतिम्।।
को हि जानाति लोकेषु प्रजापतिमतं शुभण्।
तस्मात्सपुत्रा गच्छेथा यदि ब्राह्मणि रोचते।।
नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने।
यज्ञसेनस्तु राजा स ब्रह्मण्यः सत्यसङ्गरः।।
ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः।
नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम्।।
अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः।
एकसार्थाः प्रयाताः स्मो ब्राह्मण्या यदि रोचते।।
एतावदुक्त्वा वचनं ब्राह्मणो विरराम ह।।
।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः।। 182 ।।