आदिपर्व
अध्यायः १७९
जनमेजय उवाच।
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्।
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः।।
वैशंपायन उवाच।
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्।
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने।।
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः।
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह।।
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा।
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः।।
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः।
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः।।
कथयामास देशांश्च तीर्थानि सरितस्तथा।
राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च।।
स तत्राकथयद्विप्रः कथान्ते जनमेजय।
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्।।
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे।।
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः।
विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः।।
पाण्डवा ऊचुः।
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्।
वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः।।
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत।
`धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः।'
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा।।
वैशंपायन उवाच।
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः।
कथयामास तत्सर्वं द्रौपदीसंभवं तदा।।
।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि ऊनाशीत्यधिकशततमोऽध्यायः।। 179 ।।