आदिपर्व

अध्यायः १७६

Adi Parva (Sanskrit) · Adhyaya 176
अक्षर का आकार

वैशंपायन उवाच।

करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत।
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः।।

`भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा।
बुबोध धर्मराजस्तु हृषितं भीममच्युतम्।।

तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः।
स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः।।'

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः।
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्।।

किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः।
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति।।

कुन्त्युवाच।

ममैव वचनादेष करिष्यति परन्तपः।
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च।।

`बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम्।
भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः।।'

युधिष्ठिर उवाच।

किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम्।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः।।

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि।
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया।।

यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे।
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः।।

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः।
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह।।

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः।।

यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम्।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्।।

तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया।
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः।।

कुन्त्युवाच।

युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे।
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया।।

`न च शोकेन बुद्धिः सा विलुप्ता गतचेकसः।'
इह विप्रस्य भवने वयं पुत्र सुखोषिताः।
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः।।

तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति।।

यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः।
`ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे।।'

दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्।
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे।।

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्।।

वृकोदरेण सदृशो बलेनान्यो न विद्यते।
यो व्यतीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम्।।

जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ।
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता।।

तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव।
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्।।

नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्।
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया।।

अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्।।

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्।
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः।।

क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम्।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च।।

वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्।।

शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम्।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते।।

एवं मां भगवान्व्यासः पुरा पौरवनन्दन।
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
बकवधपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः।। 176 ।।