आदिपर्व

अध्यायः १७५

Adi Parva (Sanskrit) · Adhyaya 175
अक्षर का आकार

कुन्त्युवाच।

न विषादस्त्वया कार्यो भयादस्मात्कथंचन।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः।।

`नैव स्वयं सपुत्रस्य गमनं तत्र रोचये।'
एकस्तव सुतो बालः कन्या चैका तपस्विनी।
न चैतयोस्तथा पत्न्या गमनं तव रोचये।।

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः।।

ब्राह्मण उवाच।

नाहमेतत्करिष्यामि जीवितार्थी कथंचन।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन्।।

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम्।।

आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते।
ब्रहम्वध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम।।

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते।
अबुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते।।

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे।
परैः कृते वधे पापं न किंचिन्मयि विद्यते।।

अभिसंधौ कृते तस्मिन्ब्राह्मणस्य वधे मया।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च।।

आगतस्य गृहं त्यागस्तथैव शरणार्थिनः।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः।।

कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः।।

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम्।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन।।

कुन्त्युवाच।

ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्।।

न चासौ राक्षसः शक्तो मम पुत्रविनाशने।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम।।

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम्।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः।।

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः।
बलवन्तो महाकाया निहताश्चाप्यनेकशः।।

न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्।।

गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम्।।

वैशंपायन उवाच।

एवमुक्तस्तु पृथया स विप्रो भार्यया सह।
हृष्टः संपूजयामास तद्वाक्यममृतोपमम्।।

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम्।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ।।

।। इति श्रीमन्महाभारते आदिपर्वणि
पञ्चसप्तत्यधिकशततमोऽध्यायः।। 175 ।।