आदिपर्व
अध्यायः १७७
युधिष्ठिर उवाच।
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्।
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्।।
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्।
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि।।
यथा त्विदं न विन्देयुर्नरा नगरवासिनः।
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः।।
वैशंपायन उवाच।
`युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दम।
कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत।।
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः।
ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह।।
आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम्।
मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान्।।
इद मामशितं कर्तुं प्रयतस्व सकृद्गृहे।
आथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे।।
त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः।
व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै।।
वैशंपायन उवाच।
एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ।
सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम्।।
पिशितोदनमाजह्रुरथास्मै पुरवासिनः।
सघृतं सोपदंशं च सूपैर्नानाविधैः सह।।
तदाऽशित्वा भीमसेनो मांसानि विविधानि च।
मोदकानि च मुख्यानि चित्रोदनचयान्बहून्।।
ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान्।
तस्य भुक्तवतः पौरा यथावत्समुपार्जितान्।।
उपजह्रुर्भृतं भागं समृद्धमनसस्तदा।
ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम्।।
समारुह्यान्नसंपूर्णं शकटं स वृकोदरः।
प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः।।
आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति।
तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा।।
वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः।
चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ।।
वादित्राणां प्रवादेन ततस्तं पुरुषादकम्।
अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः।।
संप्राप्य स च तं देशमेकाकी समुपाययौ।
पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः।।
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम्।
यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम्।।
केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि।
आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम्।।
गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम्।
उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम्।।
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान्।
यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम्।।
आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम्।
शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः।।
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत्।
विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा।।
अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत्।
स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च।।
उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः।
तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः।।
नारक्षो बलिमश्नीयादेवं बहु च मानवाः।
भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन्।।
स तं हसति तेजस्वी तदन्नमुपभुज्य च।'
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली।
आजुहाव ततो नाम्ना तदन्नमुपपादयन्।।
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः।।
महाकायो महावेगो दारयन्निव मेदिनीम्।
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः।।
आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः।
त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम्।।
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्।।
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्।।
भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः।।
रवं स भैरवं कृत्वा समुद्यम्य करावुभौ।
अभ्यद्रवद्भीमसेनं जिङांसुः पुरुषादकः।।
तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा।।
अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम्।
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः।।
तथा बलवता भीमः पाणिभ्यां भृशमाहतः।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः।।
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली।।
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्।
सव्येन पाणिना भीमो दक्षिणेनाप्यभुङ्क्त ह।।
`शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह।
गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम्।।
भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम्।
पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम्।।
वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः।
भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम्।।
दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत्।
भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम्।।
कृत्वाऽऽह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम्।
उवाचाशनिशब्देन ध्वनिना भीषयन्निव।।
भीम उवाच।
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम।
द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि।।
मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि।
अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम्।।
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः।
निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया।।
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः।
मया हतस्य खादन्तु विकर्षन्तु च भूतले।।
वैशंपायन उवाच।
एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया।
उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम।।
महाकायो महावेगो दारयन्निव मेदिनीम्।
पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत्।।
त्रिशिखां भ्रुकुटीं कृत्वा संदश्य दशनच्छदम्।
भृशं स भूयः संक्रुद्धो वृक्षमादाय राक्षसः।।
ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली।
क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया।।
सव्येन पाणिना भीमः प्रहसन्निव भारत।
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली।।
प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे।
सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया।।
तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम्।।
महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा।।
नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम्।
समयुध्यत तीव्रेण वेगेन पुरुषादकः।।
तयोर्वेगेन महता पृथिवी समकम्पत।
पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात्।।
द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत्।
आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन्।।
आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले।
भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस।।
इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत्।
समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम्।।
विरूपः सहसा तस्थौ2 तर्जयित्वा वृकोदरम्।
अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम्।।
असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः।
जानुभ्यां पीडयित्वाथ पातयामास भूतले।।
पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम्।
स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत्।।
तस्य बाहू समादाय त्वरमाणो वृकोदरः।
उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि।।
तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः।
उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि।।
व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा।
तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः।।
एवं निहन्यमानः स राक्षसेन बलीयसा।
रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः।।
गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम्।
तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ।।
मत्ताविव महानागावन्योन्यं विचकर्षतुः।।
बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा।
वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत।।'
तयोर्वेगेन महता तत्र भूमिरकम्पत।
पादपान्वीरुधश्चैव चूर्णयामासतू रयात्।।
समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ।
गिरिभिर्गिरिशृह्गैश्च पाषाणैः पर्वतच्युतैः।।
अन्योन्यं ताडयन्तौ तौ चूर्णयामासतुस्तदा।
आयामविस्तराभ्यां च परितो योजनद्वयम्।।
निर्महीरुहपाषाणतृणकुञ्जलतावलिम्।
चक्रतुर्युद्धदुर्मत्तौ कूर्मपृष्ठोपमां महीम्।।
मुहूर्तमेवं संयुध्य समं रक्षःकुरूद्वहौ।
ततो रक्षोविनाशाय मतिं कृत्वा कुरूत्तमः।।
दन्तान्कटकटीकृत्य दष्ट्वा च दशनच्छदम्।
नेत्रे संवृत्य विकटं तिर्यक्प्रैक्षत राक्षसम्।।
अथ तं लोलयित्वा तु भीमसेनो महाबलः।
अगृह्णात्परिरभ्यैनं बाहुभ्यां परिरभ्य च।।
जानुभ्यां पार्श्वयोः कुक्षौ पृष्ठे वक्षसि जघ्निवान्।
भग्नोरुबाहुहृच्चैव विस्रंसद्देहबन्धनः।।
प्रस्वेददीर्घनिश्वासो निर्यञ्जीवाक्षितारकः।
अजाण्डास्फोटनं कुर्वन्नाक्रोशंश्च श्वसञ्छनैः।।
भूमौ निपत्य विलुठन्दण्डाहत इवोरगः।
विस्फुरन्तं महाकायं परितो विचकर्ष ह।।
विकृष्यमाणो वेगेन पाण्डवेन बलीयसा।
समयुज्यत तीव्रेण श्रमेण पुरुषादकः।।'
हीयमानबलं रक्षः समीक्ष्य पुरुषर्षभः।
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः।।
ततो।ञस्य जानुना पृष्ठमवपीड्य बलादिव।
बाहुना परिजग्राह दक्षिणेन शिरोधराम्।।
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः।
जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह।।
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः।।
।। इति श्रीमन्महाभारते आदिपर्वणि
बकवधपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः।। 177 ।।