आदिपर्व
अध्यायः १७४
कुन्त्युवाच।
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम्।।
ब्राह्मण उवाच।
उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्।।
`तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम्।
शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम्।।
समीपे नगरस्यास्य वको वसति राक्षसः।
इतो गव्यूतिमात्रे।ञस्ति यमुनागह्वरे गुहा।।
तस्यां घोरः स वसति जिघांसुः पुरुषादकः।
बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः।।
ईशो जनपदस्यास्य पुरस्य च महाबलः।
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः।।
प्रबलः कामरूपी च राक्षसस्तु महाबलः।
तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम्।।
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्।
पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना।।
अनाथा नगरी नाथं त्रातारं नाधिगच्छति।
गुहायां च वसंस्तत्र बाधते सततं जनम्।।
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान्।
अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः।।
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान्।
यदा च सकलानेवं प्रसूदयति राक्षसः।।
अथैनं ब्राह्मणाः सर्वे समये समयोजयन्।
मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं।।
पर्यायेण यथाकाममिह मांसोदनं प्रभो।
अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम्।।
सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम्।
सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान्।।
शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम्।
वनमाहिषवाराहभाल्लूकं च शृताशृतम्।।
सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून्।
सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम्।।
कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ।
प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम्।।
तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः।
बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत।।
परचक्राटवीकेभ्यो रक्षणं स करोति च।
तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली।।
एकैकं चैव पुरुषं संप्रयच्छन्ति वेतनम्।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः।।
तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित्।
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत।।'
वेत्रकीयगृहे राजा नायं नयमिहास्थितः।
उपायं तं न कुरुते यत्नादपि स मन्दधीः।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्।।
एतदर्हा वचं नूनं वसामो दुर्बलस्य ये।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः।।
ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा।।
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्।
`राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्।
वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत्।।
विपीरतं मया चेदं त्रयं सर्वमुपार्जितम्।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम्।।
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया।।
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन।।
गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम्।।
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति।।
`दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे।।'
।। इति श्रीमन्महाभारते आदिप्रवणि
बकवधपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः।। 174 ।।