आदिपर्व

अध्यायः १७३

Adi Parva (Sanskrit) · Adhyaya 173
अक्षर का आकार

वैशंपायन उवाच।

तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु।
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत।।

किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत्।
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्।।

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः।
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया।।

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति।
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया।।

इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत।
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः।।

आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः।
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः।।

भ्राता च मम बालोऽयं गते लोकममुं त्वयि।
अचिरेणैव कालेन विनश्येत न संशयः।।

तातेपि हि गते स्वर्गं विनष्टे च ममानुजे।
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्।।

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्।।

त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्।।

आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल।
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया।।

अनाथा कृपणा बाला यत्र क्वचन गामिनी।
भविष्यामि त्वया तात विहीना कृपणा सदा।।

अथवाहं करिष्यामि कुलस्यास्य विमोचनम्।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्।।

अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम।
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि।।

तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम।
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज।।

अवश्यकरणीये च मा त्वां कालोत्यगादयम्।
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि।।

याचमानाः परादन्नं परिधावेमहि श्ववत्।
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे।
अमृतेव सती लोके भविष्यामि सुखान्विता।।

इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम्।
त्वया दत्तेन तोयेन भविष्यति हिताय वै।।

`इत्येतदुभयं तात निशाम्य तव यद्धितम्।
तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च।।

मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः।
न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः।।'

वैशंपायन उवाच।

एवं बहुविधं तस्या निशम्य परिदेवितम्।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः।।

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्।।

मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्।
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति।।

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्।
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्।।

वैशंपायन उवाच।

तथापि तेषां दुःखेन परीतानां निशम्य तत्।
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्।।

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्।
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
बकवधपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः।। 173 ।।