आदिपर्व

अध्यायः १३३

Adi Parva (Sanskrit) · Adhyaya 133
अक्षर का आकार

वैशंपायन उवाच।

कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत्।।

न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा।।

गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन।।

इदं तु मे महद्दुःखं तुल्यतायामपुत्रता।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः।।

यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्।।

संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय।।

पाण्डुरुवाच।

ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया।।

तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम्।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते।।

वैशंपायन उवाच।

ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्।
`अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि।'
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम्।।

मम चापिण्डनाशाय पूर्वेषां च महात्मनाम्।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्।।

यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना।।

तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि।।

तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्।।

सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते।
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि।।

`कुन्त्युवाच।

धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा।
तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन।।'

वैशंपायन उवाच।

एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम्।
तस्मात्ते भविताऽपत्यमनुरूपमसंशयम्।।

`ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा।
ततो राजसुता स्नाता शयने संविवेश ह।।'

ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ।
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि।।

तथैव तावपि यमौ वागुवाचाशरीरिणी।
`धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा।।

सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति।
मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा।।

नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः।
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशांपते।।

ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम्।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्।।

पूर्वजं नकुलेत्येवं सहदेवेति चापरम्।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः।।

अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः।
पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव।।

महासत्त्वा महावीर्या महाबलपराक्रमाः।
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः।।

मुदं परमिकां लेभे ननन्द च नराधिपः।
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्।।

प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्।
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्।।

तमुवाच पृथा राजन् रहस्युक्ता तदा सती।
उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता।।

बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी।
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्।।

तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम।
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः।।

संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः।
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः।।

सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः।।

विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम्।।

`जातमात्रानुपादाय शतशृङ्गनिवासिनः।
पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान्।।

वैशंपायन उवाच।

ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः।।

पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान्।
तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः।।

शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः।
योगध्यानपरो राजा बभूवेति च वादकाः।।

प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः।
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः।।

इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः।
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः।।

सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन्।
न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः।।

पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम्।
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम्।।

युक्तानि च कुमाराणां पारबर्हाण्यनेकशः।
कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम्।।

गावो हिरण्यं रौप्यं च प्रेषयामास भारत।
तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः।।

तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम्।
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः।।

पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम्।
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत्।।

गर्भाधानादिकृत्यानि चौलोपनयनानि च।
काश्यपः कृतवान्सर्वमुपाकर्म च भारत।।

चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः।
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः।।

शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः।
येन सागरपर्यन्ता धुषा निर्जिता मही।।

अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः।
आराध्य देवताः सर्वाः पितॄनपि महामतिः।।

शतशृह्गे तपस्तेपे शाकमूलफलाशनः।
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः।।

तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः।
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः।।

असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ।
धनुर्वेदे गतः पारं सव्यसाची परन्तपः।।

शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो।
अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान्।।

धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम्।
विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान्।।

ददौ पार्थाय संहृष्टो महोरगसमप्रभान्।
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः।।

मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः।।

एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः।
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च।।'

ते च पञ्च शतं चैव कुरुवंशविवर्धनाः।
सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः।। 133 ।।