आदिपर्व

अध्यायः १३४

Adi Parva (Sanskrit) · Adhyaya 134
अक्षर का आकार

`जनमेजय उवाच।

कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम्।
समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम्।।

वैशंपायन उवाच।

पाण्डवानामिहायुष्यं शृणु कौरवनन्दन।
जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः।।

भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः।
त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम्।।

तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः।
षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः।।

षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे।
धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत।।

इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम्।
द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः।।

भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम्।
मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः।।

राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन्।
एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम्।।

अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः।
कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः।।

पाण्डुः पञ्चमहातेजास्तान्पश्यन्पर्वते सुतान्।
रेमे स काश्यपयुतः पत्नीभ्यां सुभृशं तदा।।

सुपुष्पितवने काले प्रवृत्ते मधुमाधवे।
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः।।

यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः।
तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने।।

रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने।
पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत्।।'

वैशंपायन उवाच।

दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः।।

सुपुष्पितवने काले कदाचिन्मधुमाधवे।
भूतसंमोहने राजा सभार्यो व्यचरद्वनम्।।

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः।
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः।।

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्।
पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः।।

प्रहृष्टमनसं तत्र विचरन्तं यथाऽमरम्।
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्।।

समीक्षमाणः स तु तां वयःस्थां तनुवाससम्।
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः।।

रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्।
न शशाक नियन्तुं तं कामं कामवशीकृतः।।

`अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम्।
आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम्।।'

तत एनां बलाद्राजा निजग्राह रहोगताम्।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्।।

स तु कामपरीतात्मा तं शापं नान्वबुध्यत।
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव।।

जीवितान्ताय कौरव्य मन्मथस्य वशं गतः।
शापजं भयमुत्सृज्य विधिना संप्रचोदितः।।

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता।
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा।।

स तया सह संगम्य भार्यया कुरुनन्दनः।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा।।

ततो माद्री समालिङ्ग्य राजानं गतचेतसम्।
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि।।

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ।
आजग्मुः सहितास्तत्र यत्र राजा तथागतः।।

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः।
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः।।

तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान्।
हता।हमिति विक्रुश्च सहसैवाजगाम सा।।

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता।।

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्।
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः।।

ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः।
सा कथं लोभितवती विजने त्वं नराधिपम्।।

कथं दीनस्य सततं त्वामासाद्य रहोगताम्।
तं विचिन्तयतः शापं प्रहर्षः समजायत।।

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः।।

माद्र्युवाच।

विलपन्त्या मया देवि वार्यमाणेन चासकृत्।
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा।।

`वैशंपायान उवाच।

तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः।।

निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा।
तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम्।।

अलङ्कारकृतं पाण्डुं शयानं शयने शुभे।
कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम्।।

आर्ये एहीति तां कुन्तीं दर्शयामास कौरव।
पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम्।।

रक्तचन्दनदिग्धांङ्गं महारजनवाससम्।
सस्मितेन च वक्त्रेण वदन्तमिव भारतम्।।

परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया।
माद्री चापि समालिङ्ग्य राजानं विललाप सा।।

तं तथा शायिनं पुत्रा ऋषयः सह चारणैः।
अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन्।।

अस्तं गतमिवादित्यं संशुष्कमिव सागरम्।
दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः।।

समानशोका ऋषयः पाण्डवाश्च बभूविरे।
ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते।।

कुन्त्युवाच।

हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम्।
हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै।।

निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात्।
युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ।।

कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते।
नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत।।

यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि।
आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम्।।

आजमीढाजमीढानां कर्मणा चरतां गतिम्।
ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया।।

प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता।
आवाभ्यां चैव सहितो गमिष्यसि विशांपते।
मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव।।

वैशंपायन उवाच।

विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि।
यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा।।

युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः।
तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि।।

पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः।
हा विनष्टाः स्म तातेति हा अनाथा भवामहे।।

त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः।
लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे।।

क्षणेनैव महाराज अहो लोकस्य चित्रता।
नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत।।

त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा।
पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत्।।

किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम्।

भीमसेन उवाच।

हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना।।

त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम्।
हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम्।।

शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम्।
पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः।।

त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः।
अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत।।

इत्येवमुक्त्वा पितरं भीमोऽपि विललाप।।

अर्जुन उवाच।

प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम्।
तस्मिंस्तदा वनगते नष्टं राज्यमराजकम्।।

पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः।
एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर।।

इत्येवमुक्त्वा पितरं विललाप धनञ्जयः।

यमावूचतुः।

दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ।।

पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया।
न चावाप्तं किंचिदेव पुरा दशरथो यथा।।

एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ।।'

कुन्त्युवाच।

अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम।
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय।।

अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्।
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्।।

`अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये।

वैशंपायन उवाच।

मद्रराजसुता कुन्तीमिदं वचनमब्रवीत्।।'

अहमेवानुयास्यामि भर्तारमपलापिनम्।
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम्।।

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः।
समुच्छिद्यामि तत्कामं कथं नु यमसादने।।

`मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः।
न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः।।

न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता।
तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम्।।

वर्तेयं न समां वृत्तिं जात्वहं न सुतेषु ते।
तथाहि वर्तमानां मामधर्मः संस्पृशेन्महान्।।

तस्मान्मे सुतयोर्देवि वर्तितव्यं स्वपुत्रवत्।
अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम्।।'

मां हि कामयमानोऽयं राजा प्रेतवशं गतः।
राज्ञः शरीरेण सह मामपीदं कलेवरम्।।

दग्धव्यं सुप्रतिच्छन्नं त्वेतदार्ये प्रियं कुरु।
दारकेष्वप्रमत्ता त्वं भवेश्चाभिहिता मया।
अतोऽहं न प्रपश्यामि संदेष्टव्यं हितं तव।।

`वैशंपायन उवाच।

ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान्।
ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः।।

सुभगे बालपुत्रा तु न मर्तव्यं तथंचन।
पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान्।।

अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान्।
स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि।।

कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च।
माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः।।

भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः।
युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः।।

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता।
यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा।।

भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा।
तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च।।

तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम्।।

कुन्त्युवाच।

यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च।
आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा।।

यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम्।
भर्तुश्च मम पुत्राणामात्मनश्च न संशयः।।

माद्र्युवाच।

कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे।
अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती।।

कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च।
नाहं त्वमिव पुत्राणां समर्था धारणे तथा।।

साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः।
भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम्।।

धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः।
पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम्।।

वैशंपायन उवाच।

एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा।
ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च।।

अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान्।
मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा।।

हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत।
कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः।।

युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा।
वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः।।

तादृशा न विनश्यन्ति नैव यान्ति पराभवम्।
तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः।।

वैशंपायन उवाच।

ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः।
आयासकृपणा माद्री प्रत्युवाच पृथां तदा।।

माद्र्युवाच।

ऋषीणां संनिधावेषां यथा वागभ्युदीरिता।
दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत्।।

धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया।
वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम्।।

कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम्।
आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः।।

ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः।
अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि।।

धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम्।
यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां।।

वैशंपायन उवाच।

बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी।
अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते।।

भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि।
संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः।।

वैशंपायन उवाच।

ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः।
हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान्।।

उदकुम्भांश्च परशुं समानीय तपस्विभिः।
अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः।।

काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम्।
पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः।।

तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा।
रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः।।

ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मज।'
नमस्कृत्य चिताग्निस्थं धर्मपत्नी नरर्षभम्।।

मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी।।

`अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः।
उदकं कृतवांस्तत्र पुरोहितमते स्थितः।।

अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः।
तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः।। 134 ।।