आदिपर्व
अध्यायः १३२
वैशंपायन उवाच।
जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत्।
कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति।।
दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते।।
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्।
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः।।
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्।
यं दास्यति स मे पुत्रं स वीरयान्भविष्यति।।
अमानुषान्मानुषांश्च संग्रामे स हनिष्यति।
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः।।
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः।
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम्।।
आत्मना च महाबाहुरेकपादस्थितोऽभवत्।
उग्रं स तप आस्थाय परमेण समाधिना।।
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्।
सूर्येण सह धर्मात्मा पर्यतप्यत भारत।।
तं तु कालेन महता वासवः प्रत्यपद्यत।
शक्र उवाच।
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्।।
ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम्।
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम्।।
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम्।
इत्युक्तः कारैवो राजा वासवेन महात्मना।।
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्।
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः।।
दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया।
अतिमानुषकर्माणं यशस्विनमरिन्दमम्।।
नीतिमन्तं महात्मानमादित्यसमतेजसम्।
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्।।
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम्।
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते।।
वैशंपायन उवाच।
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी।
अथाजगाम देवेन्द्रो जनयामास चार्जुनम्।।
`उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा।
जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः'।।
जातमात्रे कुमारे तु `सर्वभूतप्रहर्षिणी।
सूतके वर्तमानां तां' वागुवाचाशरीरिणी।
महागम्भीरनिर्घोषा नभो नादयती तदा।।
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम्।
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम्।।
कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः।
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति।।
अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता।
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः।।
एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः।
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति।।
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः।
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्।।
ग्रामणीश्च महीपालानेष जित्वा महाबलः।
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति।।
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः।
एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः।।
एष युद्धे महादेवं तोषयिष्यति शङ्करम्।
अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति।।
निवातकवचा नाम दैत्या विबुधविद्विषः।
शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः।।
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति।
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः।।
एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके।
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम्।।
बभूव पमो हर्षः शतशृङ्गनिवासिनाम्।
तथा देवमहर्षीणां सेन्द्राणां च दिवौकसाम्।।
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः।
उदतिष्ठन्महाघोरः पुष्पवृष्टिभिरावृतः।।
समवेत्य च देवानां गणाः पार्थमपूजयन्।
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा।
प्रजानां पतयः सर्वे सप्त चैव महर्षयः।।
भरद्वाजः खस्यपो गौतमश्च
विश्वामित्रो जमदग्निर्वसिष्ठः।
यश्चोदितो भास्करेऽभूत्प्रनष्टे
सोऽप्यत्रात्रिर्भगवानाजगाम।।
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः।
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा।।
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः।
उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः।।
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः।
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः।।
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः।।
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः।।
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः।
ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः।।
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः।
विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा।।
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू।
इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप।।
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः।
ननृतुर्वै महाभागा जगुश्चायतलोचनाः।।
अनूचानाऽनवद्या च गुणमुख्या गुणावरा।
अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा।।
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा।
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा।।
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा।
पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी।।
काम्या शारद्वती चैव ननृतुस्तत्र संघशः।
मेनका सहजन्या च कर्णिका पुञ्जिकस्थला।।
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि।
उम्लोचेति च विख्याता प्रम्लोचेति च ता दश।।
उर्वश्येकादशी तासां जगुश्चायतलोचनाः।
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा।।
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः।।
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः।।
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः।
अजैकपादहिर्बुध्न्यः पिनाकी च परंतप।।
दहनोऽथेश्वरश्चैव कपाली च विशांपते।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे।।
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः।
विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः।।
कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः।
कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः।।
आययुस्तपसा युक्ता महाक्रोधा महाबलाः।
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः।।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः।
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः।।
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः।
विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः।।
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः।
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति।।
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत्।
पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम्।।
प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः।
मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः।।
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः।
पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया।।
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक्।
इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम्।।
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः।
प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत्।।
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत।
अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत्।।
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम्।
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः।। 132 ।।