आदिपर्व
अध्यायः १२५
वैशंपायन उवाच।
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः।।
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः।
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत।।
केषांचिदभवद्भ्राता केषांचिदभवत्सखा।
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्।।
स तु कालेन महता प्राप्य निष्कल्मषं तपः।
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ।।
अमावास्यां तु सहिता ऋषयः संशितव्रताः।
ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः।।
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत्।
भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः।।
ऋषय ऊचुः।
समावायो महानद्य ब्रह्मलोके महात्मनाम्।
देवानां च ऋषीणां च पितॄणां च महात्मनाम्।
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम्।।
वैशंपायन उवाच।
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः।
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः।।
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः।
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः।।
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम्।
विमानशतसंबाधां गीतस्वरनिनादिताम्।।
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा।
उद्यानानि कुबेरस्य समानि विषमाणि च।।
महानदीनितम्बांश्च गहनान्गिरिगह्वरान्।
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः।।
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः।
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः।।
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः।
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं न्विमे।।
न सीदेतामदुःखार्हे मा गमो भरतर्षभ।
पाण्डुरुवाच।
अप्रजस्य महाभागा न द्वारं परिचक्षते।।
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः।
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः।।
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा।
ऋषय ऊचुः।
अस्ति वै तव धर्मात्मन्विद्म देवोपम शुभम्।।
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा।
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय।।
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः।
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि।।
अपत्यं गुणसंपन्नं लब्धा प्रीतिकरं ह्यसि।
वैशंपायन उवाच।
तच्छ्रुत्वा तापसवचः पाण्डुस्चिन्तापरोऽभवत्।।
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि संभवपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः।। 125 ।।