आदिपर्व

अध्यायः १२४

Adi Parva (Sanskrit) · Adhyaya 124
अक्षर का आकार

वैशंपायन उवाच।

तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम्।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः।।

पाण्डुरुवाच।

सतामपि कुले जाताः कर्मणा बत दुर्गतिम्।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः।।

शश्वद्धर्मात्मना जातो बाल एव पिता मम।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्।।

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्।।

तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा।
त्यक्तस्य देवैरनयान्मृगयां परिधावतः।।

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्।।

अतीव तपसात्मानं योजयिष्याम्यसंशयम्।
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ।।

चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्।
पांसुना समवच्छन्नः शून्यागारकृतालयः।।

वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः।
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः।।

निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः।
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्।।

प्रसन्नवदनो नित्यं सर्वभूतहिते रतः।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्।।

स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति।
एककालं चरन्भैक्षं कुलानि दश पञ्च च।।

असंभवे वा भैक्षस्य चरन्ननशनान्यपि।
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्।।

अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्।
अलाभे यदि वा लाभे समदर्शी महातपाः।।

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः।।

न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्।
जीवितं मरणं चैव नाभिन्दन्न च द्विषन्।।

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः।
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः।।

तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः।
संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः।।

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः।।

एतया सततं वृत्त्या चरन्नेवंप्रकारया।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः।।

नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते।
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः।।

सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि।।

वैशंपायन उवाच।

एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत।।

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः।।

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः।
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने।।

निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः।
तत्समं वचनं कुन्ती माद्री च समभाषताम्।।

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ।
`आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम्।'
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत्।।

शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम्।
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः।।

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे।
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः।।

यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते।
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः।।

पाण्डुरुवाच।

यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्।।

त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः।
वल्कली फलमूलाशी चरिष्यामि महावने।।

अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्।
कृशः परिमिताहारश्चीरचर्मजटाधरः।।

शीतवातातपसहः क्षुत्पिपासानवेक्षकः।
तपसा दुश्चरेणेदं शरीरमुपशोषयन्।।

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्।
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्।।

वानप्रस्थजनस्यापि दर्शनं कुलवासिनः।
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्।।

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्।
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात्।।

वैशंपायन उवाच।

इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च।।

वासांसि च महार्हाणि स्त्रीणामाभरणानि च।
`वाहनानि च मुख्यानि शस्त्राणि कवचानि च।।

हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च।
मणिमुक्ताप्रवालानि रत्नानि विविधानि च।।'

प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत।
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने।
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्।।

प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः।
ततस्तस्यानुयातारस्ते चैव परिचारकाः।।

श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः।
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः।।

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम्।।

ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः।
कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः।।

श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत।।

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्।
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्।।

राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः।
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्।।

स चैत्ररथमासाद्य कालकूटमतीत्य च।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्।।

रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः।
उवास स महाराज समेषु विषमेषु च।।

इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च।
शतशृङ्गे महाराज तापसः समतप्यत।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः।। 124 ।।