आदिपर्व

अध्यायः १२६

Adi Parva (Sanskrit) · Adhyaya 126
अक्षर का आकार

वैशंपायन उवाच।

अथ पारसवीं कन्यां देवकस्य महीपतेः।
रूपयौवनसंपन्नां स सुश्रावापगासुतः।।

ततस्तु वरयित्वा तामानीय भरतर्षभः।
विवाहं कारयामास विदुरस्य महामतेः।।

तस्यां चोत्पादयामास विदुरः कुरुनन्दन।
पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः।।

ततः पुत्रशतं जज्ञे गान्धार्या जनमेजय।
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः।।

पाण्डोः कृन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः।
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै।।

जनमेजय उवाच।

कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम।
कियता चैव कालेन तेषामायुश्च किं परम्।।

कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्।।

आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत।
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना।।

समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः।
एतद्विद्वन्यथान्यायं विस्तरेण तपोधन।।

कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु।

वैशंपायन उवाच।

ऋषिं बुभुक्षितं श्रान्तं द्वैपायनमुपस्थितम्।।

तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ।
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः।।

ततः कालेन सा गर्भमगृह्णाज्ज्ञानचक्षुषः।।

गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः।
अगच्छत्परमं दुःखमपत्यार्थमरिन्दम।।

गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः।
मृगाभिशापादात्मानं शोचन्नुपरतक्रियः।।

स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि।
देहान्यासे कृतमना इदं वचनमब्रवीत्।।

पाण्डुरुवाच।

चतुर्भिर्ऋणवानित्थं जायते मनुजो भुवि।
पितृदेवमनुष्याणामृषीणामथ भामिनि।।

एतेभ्यस्तु यथाकालं यो न मुच्येत धर्मवित्।
न तस्य लोकाः सन्तीति तता लोकविदो विदुः।।

यज्ञेन देवान्प्रीणाति स्वाध्यायात्तपसा ऋषीन्।
पुत्रैः श्राद्धैरपि पितॄनानृशंस्येन मानवान्।।

ऋषिदेवमनुष्याणामृणान्मुक्तोऽस्मि धर्मतः।
पितॄणां तु न मुक्तोऽस्मि तच्च तेभ्यो विशिष्यते।।

देहनाशे भवेन्नाशः पितॄणामेष निश्चयः।
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति।।

इह तस्मात्प्रजालाभे प्रयतन्ते द्विजोत्तमाः।
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना।।

तथैवास्मिन्मम क्षेत्रे कथं सृज्येत वै प्रजा।

वैशंपायन उवाच।

स समानीय कुन्तीं च माद्रीं च भरतर्षभः।।

आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम्।
उत्तमादवराः पुंसः काङ्क्षन्तो पुत्रमापदि।।

अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः।
अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि।
ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित्।।

सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्।
अपत्योत्पादने यत्नमापदि त्वं समर्थय।।

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता।
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः।।

इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः।
सर्वमेवानपत्यस्य न पावनमिहोच्यते।।

सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते।
अनपत्यः शुभाँल्लोकान्नप्राप्स्यामीति चिन्तयन्।।

`अनपत्यो हि मरणं कामये नैव जीवितम्।'
मृगाभिशापं जानासि विजने मम केवलम्।
नृशंसकर्मणा कृत्स्नं यथा ह्युपहतं तथा।।

इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने।
षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे पृथे।।

स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः।
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते।।

दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः।
सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः।।

पूर्वपूर्वतमाभावं मत्त्वा लिप्सेत वै सुतम्।
उत्तमाद्देवरात्पुंसः काङ्क्षन्ते पुत्रमापदि।।

अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः।
आत्मशुक्रादपि पृथे मनुः स्वायंभुवोऽब्रवीत्।।

तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्।।

सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि।
शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति।।

`या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी।
अवाह तां तु कैकेयः शारदाण्डायनिर्महान्।।'

सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि।
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे।।

वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्।
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्।।

तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्।
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्।
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षड्विंशत्यधिकशततमोऽध्यायः।। 126 ।।